SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ * अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। एगकजपवन्नाणं, विसेसे किं नु कारणं?॥१३॥| केशिगौत__ब्याख्या-"उभओ वि" त्ति उभावपि "अल्लीण" त्ति 'आलीनौ' मनोवाकायगुप्तिष्वाश्रितौ 'सुसमाहितौ' सुष्ठ | मयोर्धार्मिसमाधिमन्तौ ।। "उभउ" त्ति उभयोः 'तो'ति श्रावस्त्याम् ॥ चिन्तास्वरूपमाह-कीदृशः ?' किं स्वरूपः ? 'वा' विकल्पे, कमीमांसा। "इमो” त्ति 'अयम्' अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अयमि'ति दृश्यमानगणभृच्छिष्यसम्बन्धी "धम्मो व" त्ति वाशब्दो भिन्नक्रमः, ततश्चायं वा धर्मः कीदृशः ?, आचारः-वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः स एव धर्म| स्तस्य प्रणिधिः-व्यवस्थापनम् आचारधर्मप्रणिधिः "इमा व" त्ति प्राकृतत्वात् 'अयं वा' अस्मत्सम्बन्धी, "सा व” त्ति | स वा द्वितीययतिसत्कः । अयमाशयः-अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मः, तरिकमस्यैतत्साधकानां च भेदः ? इति । तदेतदेव बोद्धुमिच्छामो वयमिति ॥ उक्तामेव चिन्ता व्यक्तीकर्तुमाह-"चाउज्जामो उ" त्ति 'चतुर्यामश्च' चतुर्महाव्रतो यो धर्मो देशितः पार्श्वन इति सम्बन्धः। “जो इमो" त्ति चकारस्य प्रश्लेषाद् यश्चायं पञ्चशिक्षाः-प्राणातिपातविरमणोपदेशरूपाः सञ्जाता यस्मिन्नसौ पञ्चशिक्षितो वर्द्धमानेन देशित इति योगः, "महामुणि" त्ति महामुनिना । अनयोर्विशेषे किन्नु कारणमित्युत्तरेण सम्बन्धः । अनेन धर्मविषयः संशयो व्यक्तीकृतः।। आचारधर्मप्रणिधिविषयं तमेव व्यनक्ति-अचेलकश्च यो धर्मो वर्द्धमानेन देशित इत्यपेक्ष्यते । तथा "जो इमो” त्ति यश्चायं सान्तराणि-वर्द्धमानखामियत्यपेक्षया मानवर्णविशेषतः सविशेषाणि उत्तराणि-महामूल्यतया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहाऽप्यपेक्ष्यते । एककार्य-मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ-प्रवृत्तौ एककार्यप्रपन्नौ तयो: प्रक्रमात् पार्श्ववर्द्धमानयोर्विशेषे 'किमिति संशये, 'नु' वितर्के 'कारणं' हेतुः। शेष स्पष्टमिति सूत्रपश्चकार्थः ॥ ९-१०-११-१२-१३ ॥ एवं च विनेयचिन्तोत्पत्तौ यत् केशिगौतमावकार्दा तदाह
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy