________________
व्याख्या - 'सोऽपि ' इति स पुनः || 'एहि' आगच्छ, “ता" इति तावत् । शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ३६३७-३८ ॥ ततो राजीमती किमचेष्टत ? इत्याह
दट्टूण रहनेमिं तं भग्गुज्जोयपराइयं । राजीमती असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ अह सा रायवरकन्ना, सुट्टिया नियमवए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥ ४० ॥ | जइ सि रूवेण वेसमणो, ललिएण नलकूबरो । तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरो ॥४१॥ घिरत्थु ते जसो कामी !, जो तं जीवियकारणा । वतं इच्छसि आवेउं, सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स, तं वसि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविदु व हडो, अट्ठिअप्पा भविस्ससि ॥ गोवालो भंडवालो वा, जहा तद्दवऽणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ॥४५॥
व्याख्या - सुगमम् । नवरम् — “भग्गुज्जोय पराइयं" ति भग्नोद्योगः - अपगतोत्साहः प्रस्तावात् संयमे स चासौ पराजितश्च स्त्रीपरीषद्देण भग्नोद्योगपराजितस्तम् ॥ 'ललितेन' सविलासचेष्टितेन 'नलकूबर: ' देवविशेषः, 'ते' इति त्वाम् ॥ अपर — धिगस्तु ते 'यशः ' महाकुलसम्भवोद्भूतं 'कामिन् !' भोगाभिलाषिन् ! यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छसि आपातुम्, अतः श्रेयो मरणं ते भवेत्, न तु वान्ताऽऽपानम्, अत्यन्तदुष्टत्वाद् अस्य । उक्तश्च"विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित् पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते, नहि सर्वः सारमेयोऽपि ॥ १ ॥” अहं च, 'च' पूरणे, 'भोगराजस्य' उग्रसेनस्य त्वं चासि अन्धकवृष्णिकुले जात इति शेषः, अतश्च मा कुले “गंधण" त्ति 'गन्धनानां' सर्पविशेषाणां "होमो” त्ति भूव तचेष्टितकारितयेति भावः, ते हि वान्तमपि विषं मन्नाकृष्टा मृत्युभीरु
xoxoxoxoxoxoxox
राजीमतीरथनेमयोवर्णनम् ।