SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । द्वाविंश रथनेमीयाख्यम|ध्ययनम् । राजीमतीरथनेमयोवर्णनम् । ॥२८४॥ तया पुनरापिबन्ति नतु अगन्धनाः। किं तर्हि कृत्यम् ? इत्याह-संयम 'निभृतः' स्थिरश्चरेः । यदि त्वं करिष्यसि 'भावं' प्रक्रमाद् भोगाभिलाषरूपं या या द्रक्ष्यसि नारीस्तासु तासु इति गम्यते, ततः किम् ? इत्याह-वाताविद्धो हठः-वनस्पतिविशेषः स इव अस्थितात्मा भविष्यसि ॥ गोपालः' गवां पालयिता 'भाण्डपालः' यः परकीयभाण्डानि भाटकादिना पालयति, तद्व्यस्य-गवादेः अनीश्वरः-अप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्थाऽभावादिति सूत्रसप्तकार्थः ॥ ३९-४०-४१-४२-४३-४४-४५ ॥ एवं तयोक्ते रथनेमिः किं कृतवान् ? इत्याहतीसे सो वयणं सोचा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥४६॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामण्णं निच्चलं फासे, जावजीवं दढवओ॥४७॥ व्याख्या-अङ्कशेन यथा नागो मार्गे इति शेषः 'धर्म' चारित्रधर्मे "संपडिवाइतो" त्ति 'सम्प्रतिपतितः' स्थितस्तद्वचसैवेति गम्यते । अत्र च वृद्धसम्प्रदायः-"नेउरपंडियक्खाणयं भणिऊणं जाव रुटेणं राइणा देवी मिठो हत्थी य तिम्नि वि छिन्नकडगे चडावियाणि, भणितो य मिठो-इत्थं वाहेहिं हत्थिं दोहि य पासेहिं वेलुग्गाहा ठविया जाव | एगो पाओ आगासे ठवितो । जणो भणइ-एयाणि मारेयवाणि, को एयस्स तिरियजाइस्स दोसो। तहा वि राया रोसं न मुंचइ । जाव तिन्नि पाया आगासे कया, एगेण ठितो। लोगेण अकंदो कतो-किमेयं हत्थिरयणं वावाइजइ ? | रण्णा मिठो भणिओ-तरसि नियत्तिउं ? । भणइ-जइ दुण्हमम्हाण वि अभयं देसि । दिन्नं । ततो तेण अंकुसेण नियत्तितो हत्थि" त्ति । इह चाऽयमभिप्रायः-यथाऽयमिदृगवस्थो द्विपोऽङ्कशवशतः पथि संस्थितः, एबमयमपि उत्पन्नविश्रोतसिकः तद्वचनेनाऽहितप्रवृत्तिनिवर्तकतया अकुशप्रायेण धर्मे इति । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ ४६-४७ ॥ उभयोरप्युत्तरवक्तव्यतामाह ॥२८४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy