________________
*
श्रीउत्तराध्ययनसूत्रे श्रीनमिच- न्द्रीयवृत्तिः ॥ २२॥
द्वितीय परीषहाध्ययनम् ।
पोरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैब, म्रियन्ते दुःखभागिनः॥ ४॥ तथा—अन्नं इमं सरीरं, अन्नो जीवी त्ति एव कयबुद्धी । दुक्खकरं जीव ! तुम, छिंद ममत्तं सरीरम्मि ॥ ५ ॥ इमं भावितो सम्मं सहइ त्ति पीयसोणिओ रत्ति चेव कालगओ । एवमहियासियचं ॥ इति दंशमशकपरीषहः ॥ अधुनाऽचेलः सन् तुद्यमानो दंशमशकैर्ववाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहपरिजुन्नेहिं पत्थेहि, होक्खामि त्ति अचेलए। अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए॥१२॥ | व्याख्या-परिजीर्णैः' दुर्बलैः 'वस्त्रैः' कल्पादिभिः "होक्खामि" त्ति भविष्यामि 'अचेलकः' चेलकविकलः अल्पदिनभावित्वादेषाम् , इतिशब्दस्यात्र सम्बन्धात् 'इति' एतद् भिक्षुर्न चिन्तयेद् इति योगः । अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिच्छ्राद्धः सुन्दरतराणि वस्त्राणि दास्यति इति भिक्षुर्न चिन्तयेत् । इदमुक्तं भवति-न जीणंचेलोऽन्यचेललाभासंभावनया दैन्यं लाभसंभावनया वा प्रमोदं गच्छेदिति सूत्रार्थः ॥ १२ ॥ इत्थं स्थविरकल्पिकमानित्याचेलकपरीषह उक्तः ॥ सम्प्रति सामान्यतस्तमेवाह
एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं नचा, नाणी णो परिदेवए ॥१३॥ व्याख्या-'एकदा' जिनकल्पिकाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादिवत्रतया वा अचेलको भवति सचेलश्च 'एकदा' स्थविरकल्पिकाद्यवस्थायाम् । ततः किम् ? इत्याह-एतत्' इत्यवस्थौचित्येन सचेलत्वमचेलत्वं च 'धर्महितं साधुधर्मोपकारकं ज्ञात्वा' अवबुध्य, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिमिः । यथोक्तम्-पंचहिं ठाणेहिं पुरिम
१ भन्यदिदं शरीरमन्यो जीव इत्येवंकृतबुद्धिः । दुःखकरं जीव! त्वं छिद्धि ममत्वं शरीरे ॥५॥
|॥ २२॥