________________
पकारिषु तुल्यचित्त एवं प्राकृतलक्षणत्वाद् विसर्जनीयस्य रेफः, महामुनिः। किम् ? इत्याह-'नाग इव' करीव वाशब्दस्य इवार्थस्यात्र सम्बन्धात् , 'संग्रामशिरसि' रणमस्तके 'शूरः' पराक्रमवान् 'अभिहन्यात्' जयेत् 'परं' शत्रुम् । अयमभिप्रायः-यथा शूरः करी शरैस्तुद्यमानोऽपि तद्गणनया रणशिरसि शत्रु जयति एवमयमपि दंशादिभिरुपद्रूयमाणोऽपि भावशत्रु क्रोधादिकं जयेदिति सूत्रार्थः ॥ १०॥ कथं जयेद् भावशत्रुम् ? इत्याह
न संतसे न वारिज्जा, मणं पिण पओसए । उवेहे न हणे पाणे, मुंजते मंस-सोणियं ॥११॥ __ व्याख्या-'न संत्रसेत्' नोद्विजेद् दंशादिभ्य इति गम्यते । न 'वारयेत्' निषेधेत दंशादीनेव तुदतो मा भूदन्तराय इति । 'मनः' चित्तं तदपि आस्तां वचनादि 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात् किन्तु "उवेहे"त्ति 'उपेक्षेत' औदासीन्येन पश्येद् अत एव न हन्यात् 'प्राणान्' प्राणिनः 'भुञ्जानान्' आहारयतो मांसशोणितम् । अपि चासंज्ञिन एते आहारार्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारणं यदि भक्षयन्ति किमत्र प्रद्वेषेण ? इति विचिन्तयेदिति सूत्रार्थः ॥ ११॥
उदाहरणञ्च-चंपाए नयरीए जियसत्तुस्स रन्नो पुत्तो समणभद्दो जुवराया धम्मघोसस्स अंतिए धम्म सोच्चा | निविन्नकामभोगो पवइओ। अहिन्जियसुत्तो दृढसत्तयाए एगल्लविहारपडिमं पडिवन्नो। अन्नया हिट्ठाभूमीए विहरतो सरयकाले अडवीए पडिमं ठिओ रत्तीए मसएहिं खजइ । अउला वेयणा जाया। सो ते ण पमजइ चिंतेइ य–केवइयमेयं दुक्खं ?, पत्तोऽणंतगुणं नरएसु होजा । तथाहि-शृगालवृकरूपैश्च, चित्रकाऽऽकारधारकैः । आक्षेपत्रोटितस्नायुर्भक्ष्यन्ते रुधिरोक्षिताः ॥ १॥श्वरूपैः कोलरूपैश्च, नारका भयविह्वलाः। खण्डशः प्रविलुप्यन्ते, क्रन्दन्तः शवला| दिभिः ॥२॥ काकगृध्रादिरूपैश्च, लोहतुण्डेबलान्वितैः । विनिकृष्टाक्षिजिह्वात्रा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणै
*EXOXOXOXOXOXOXOXOXOXOXOX