________________
XCXCXXX CXCXCXCXCXCX XX
मयाऽनुष्ठितेयम्' इत्येवंरूपेण दया- संयमस्तद्विहीनः सन् ॥ यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्त्ता ? इत्याह- निरर्थिका, तुशब्दस्येह सम्बन्धात् 'निरर्थिकैव' निष्फलैव नाइये - श्रामण्ये रुचिर्नाभ्यरुचिः तस्य यः "उत्तिमट्ठि” त्ति सुव्यत्ययाद् अपेर्गम्यमानत्वात् 'उत्तमार्थेऽपि ' पर्यन्तसमयाराधनरूपे, आस्तां पूर्वम्, 'विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित् स्यादपि किञ्चित् फलमिति भावः ॥ किमेवम् ? उच्यतेयतः "इमे वि" त्ति 'अयमपि प्रत्यक्षो लोक इति सम्बन्धः "से" तस्य नास्ति, न केवलमयमेव 'परोऽपि भवान्तररूपः, | तत्रेहलोकाभावः शरीरक्लेशहेतुलोचादि सेवनात्, परलोकाभावश्च कुगतिगमनभावतः । तथा च "दुहतो वि” त्ति 'द्विधापि' - ऐहिकपार त्रिकार्थाभावेन " से झिज्झइ" त्ति स ऐहिकपार त्रिकार्थसम्पत्तिमतो जनानवलोक्य 'धिङ् मामपुण्यभाजनमुभयभ्रष्टम्' इति चिन्तया क्षीयते 'तत्रे'त्युभयरूपे 'लोके' जगति ॥ यदुक्तम् —'स ज्ञास्यति पश्चादनुतापेन' इति तत्र यथासौ परितप्यते तथा दर्शयन् उपसंहारमाह – 'एवमेव' उक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाच्छन्दा:- स्वरुचिविरचिताचाराः कुशीलाः - कुत्सितशीलास्तद्रूपाः- तत्स्वभावाः 'कुररीव' पक्षिणीव " निरट्ठसोय" त्ति निरर्थः - निः प्रयोजनः | शोको यस्याः सा निरर्थशोका 'परितापं' पश्चात्तापरूपमेति । यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते, न च ततः कश्चित् प्रतीकार इति, एवमसावपि भोगरसगृद्ध ऐहिकाऽऽमुष्मिकाऽपायप्राप्तौ; ततोऽस्य स्वपरपरित्राणाऽसमर्थत्वेनानाथत्वमिति भाव इति सूत्रत्रयोदशकार्थः ॥ एतत् कृत्वा यत् कृत्यं तदुपदेष्टुमाह
सोचाण मेहावि ! सुभासियं इमं, अणुसासणं णाणगुणोववेयं । मग्गं कुसीलाण जहाय सवं, महाणियंठाण वए पहेणं ॥ ५१ ॥
*CXXXXXXXXX6
व्याख्या — श्रुत्वा हे मेधाविन् ! सुष्ठु - शोभनप्रकारेण भाषितं सुभाषितम् 'इदम्' अनन्तरोक्तम् 'अनुशासन'
अनाथनिर्ग्रन्थस्व
वक्तव्यता ।