SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२७१॥ लप्पमाणे" त्ति सोपस्कारत्वात् संयतम् आत्मानं लपन् 'विनिघातं' विविधाभिघातरूपमागच्छति, सुचिरमपि आस्ता-lall विंशतितम मल्पकालं नरकादाविति भावः ॥ इहैव हेतुमाह-विषं 'तुः' चार्थे, स च योक्ष्यते, पीतं यथा कालकूटं "हणाई" त्ति* महानिर्ग्रहन्ति शस्त्रं च यथा 'कुगृहीतं' दुर्गृहीतं "एसेव" त्ति एष एव विषादिवत् 'धर्मः' यतिधर्मः 'विषयोपपन्नः' शब्दादि न्थीयाख्य| विषययुक्तो हन्ति दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, वेताल इव, चस्य गम्यमानत्वाद् वेताल इव च 'अविपन्नः' | मध्ययनम्। अप्राप्तविपत् मत्रादिभिरनियत्रित इत्यर्थः ॥ यो लक्षणं स्वप्नं च 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं अनाथिच-अपत्याद्यर्थं स्नपनादि तयोः सम्प्रगाढः-सक्तो यः सः, तथा "कुहेडविज" ति कुहेटकविद्याः-अलीकाश्चर्यविधायि निर्ग्रन्थस्य मत्रतत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वाद् आश्रवद्वाराणि तेर्जीवितुं शीलमस्येति कुहेटविद्याश्रवद्वारजीवी 'न गच्छति' वक्तव्यता। न प्राप्नोति शरणं 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ अमुमेवार्थ भावयितुमाह-"तमंतमेणेव उ” त्ति | अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव, 'तुः' पूरणे, 'सः' द्रव्ययतिः अशीलः सदा 'दुःखी' विराधनाजनितदुःखेनैव, “विप्परियासुवेइ" त्ति 'विपर्यासं' तत्त्वेषु वैपरीत्यमुपैति, ततश्च ‘सन्धावति' सततं गच्छति नरकतिर्यग्योनी: 'मौन' चारित्रं विराध्य 'असाधुरूपः' तत्त्वतोऽयतिस्वभावः सन् । अनेन च विराधनाया अनुबन्धवत् फलमुक्तम् ॥ कथं पुनमौनं विराध्य कथं वा नरकतिर्यग्गतीः सन्धावति ? इत्याह-"उद्देसि यमि"त्यादि "नियागं" नित्यपिण्डम् , अग्निरिव सर्वम्-अप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः, इत,युतो गच्छति कुगतिमिति शेषः ॥ यतश्चैवं स्वदुश्चरितैरेव दुर्गतिप्राप्तिः अतः 'न' नैव 'तमिति प्रस्तावाद् अनर्थम् अरिः कण्ठच्छेत्ता ॥२७१॥ करोति यं "से" तस्य करोत्यात्मीया 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, न चैनामाचरन्नपि जन्तुर्मूढतया वेत्ति परं 'सः' दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां 'मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चात् 'अनुतापेन' 'हा! दुष्टु KOXOXOXOXOXOXOXOXOXOXOXOX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy