________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
एमेवऽहाछंदकुसीलरूवे, मग्गं विराहेत्तु जिणोत्तमाणं ।
कुररी विवा भोगरसाणु गिद्धा, निरहसोगा परितावमेई ॥५०॥ व्याख्या-'इयं च' वक्ष्यमाणा 'हुः' पूरणे, अन्याऽपि अनाथता नृप! अस्तीति शेषः, 'ताम्' अनाथताम् एकचित्तः निभृतः' स्थिरः शृणु, का पुनरसौ ? इत्याह -निग्रन्थधर्म 'लहियाण वि" त्ति लब्ध्वाऽपि 'यथे'त्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीभवन्ति 'एके' केचन बहवश्व ते कातरनराश्च बहुकातरनराः, सीदन्तश्च न आत्मानमन्यांश्च रक्षयितुं क्षमा इति, इयं सदनलक्षणाऽपराऽनाथतेति भावः।। सदनस्यैवाऽनेकधास्वरूपानुवादतः फलदर्शनार्थमाह -"जो पवइत्त" इत्यादि सुगममेव-नवरम्-'नस्पृशति' न सेवते, 'बन्धन' रागद्वेषात्मकम् ।। 'आयुक्तता' उपयुक्तता 'काचिदिति स्वल्पाऽपि “आयाणनिक्खेव" त्ति सुब्लोपात् 'आदाननिक्षेपयोः' उपकरणग्रहणन्यासयोः, तथा जुगुप्सनायाम् , इह चोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स ईदृक् किम् ? इत्याह-न धीरैर्यातःगतो धीरयातस्तम् अनुयाति 'मार्ग' सम्यग्दर्शनात्मकं मुक्तिपथम् । तथा च चिरमपि मुण्ड एव-मुण्डन एव निःशेषानुष्ठानपराङ्मखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिरवतः तपोनियमेभ्यो भ्रष्टः चिरमप्यात्मानं 'केशयित्वा' लोचादिना बाधयित्वा न पारगो भवति, 'हुः' वाक्यालङ्कारे, “संपराए" त्ति सुव्यत्ययात् 'सम्परायस्य' संसारस्य ॥ स चैवंविधः पोल्लेव' अन्तः सुषिरैव न मनागपि निबिडा मुष्टियथा असारा । "अयंतिए" त्ति अयश्रितः कूटकार्षापण इव, यथा यसौ न केनचित् कूटत्वेन नियन्यते तथैषोऽपि निगुणत्वादुपेक्षणीयः। 'राढामणिः' काचमणिः वैडूर्यप्रकाशः अमहाघको भवति, 'हुः' अवधारणे, ज्ञेष ॥ 'कुशील लिङ्गं' पार्श्वस्थादिवेषम् इह' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वज' मुनिचिह्न रजोहरणादि "जीविय" त्ति आर्षत्वात् जीविकाय 'हयित्वा' इदमेव प्रधानमिति ख्यापनेनोपह्य तत एवाऽसंयतः सन् “संजय
उ०अ०४६