________________
एकोनविंशं
मृगापुत्री
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
याख्यमध्ययनम्।
मृगापुत्रवक्तव्यता।
॥२६६॥
कल्प:-तुल्यो यः स तथा। 'अशने' आहारे अनशने' अशनाभावे तथाकल्प इत्यत्राऽपि दृश्यः॥ अप्रशस्तेभ्यः 'द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो निवृत्त इति गम्यते, तत एव 'पिहितास्रवः' निरुद्धकर्मसङ्गलनः, कैः पुनरेवंविधोऽयम् ? आत्मन्यधि अध्यात्म तत्र ध्यानयोगा:-शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः, प्रशस्तो दमःउपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स तथेति सूत्रषट्रार्थः ॥ ८८-८९-९०-९१-९२-९३ ।। सम्प्रत्येतस्यैव भगवतः फलोपदर्शनायाहएवं णाणेण चरणेण, दंसणेण तहेव य । भावणाहि य सुद्धाहिं, सम्मं भावेत्तु अप्पयं ॥९४॥ बहुयाणि य वासाणि, सामन्नमणुपालिया। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥९५॥
व्याख्या-सुगममेव । नवरम्-"मासिएण उ भत्तेणं" मासे भवं मासिकं तेन, 'तुः' पूरणे 'भक्तेन' भोजनेन, मासोपलक्षणत्वादस्य मासोपवासेनेति भावः ॥ ९४-९५ ॥ सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाहएवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियहति भोगेसु, मियापुत्ते जहा मिसी॥९६॥
व्याख्या-सुगमम् । नवरं-"जहा मिसि"त्ति यथा ऋषिः, मकारोऽलाक्षणिकः ॥ इत्थमन्योक्त्या उपदिश्य पुनर्भङ्गयन्तरेणोपदिशन्नाह
महापभावस्स महाजसस्स, मियाए पुत्तस्स णिसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुयं ॥ ९७॥ वियाणिया दुक्खविवद्धणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महं ॥ ९८ ॥ ति बेमि ॥
॥२६६॥