________________
मृगापुत्रवक्तव्यवा।
XOXOXOXOXOXOXOXOXOXOXOXOXO
यतश्चैवमतोऽनुजानीत मामिति शेषः, प्रव्रजिष्यामि "अम्मो" ति मातुरामबणमिति सूत्रार्थः ॥ १०॥ सम्प्रत्यात्मीयमेवासौ प्रव्रज्याहेतुं संसारनिर्वेदं भोगनिन्दादिद्वारेण प्रकटयितुमाहअम्मताय! मए भोगा, भुत्ता विसफलोवमा। पच्छा कडयविवागा, अणुबंधदुहावहा॥११॥ इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१२॥ असासए सरीरम्मि, रई नोवलभामऽहं । पच्छा पुरा य चइयचे, फेणबुडयसण्णिभे ॥१३॥ माणुसत्ते असारम्मि, वाहीरोगाण आलए । जरामरणपत्थम्मि, खणं पि न रमामऽहं ॥१४॥ जम्मंदुक्खं जरा दुक्खं,रोगा यमरणाणिय। अहो! दुक्खो हुसंसारो,जत्थ किस्संतिजंतुणो१५ खेत्तं वत्थु हिरणं च, पुत्तदारं च बंधवा । चइत्ता णं इमं देहं, गंतवमवसस्स मे ॥१६॥ जहा किंपागफलाणं, परिणामो ण सुंदरो । एवं भुत्ताण भोगाणं, परिणामो ण सुंदरो ॥१७॥
व्याख्या-प्रतीतार्थमेव । नवरम्-"असासयावासमिणं" ति अशाश्वतः आवासः-प्रक्रमात् जीवस्यावस्थानं यस्मिंस्तत् | तथा, "इणं" ति इदं "दुक्खकेसाण भायणं" दुःखहेतवः केशा दुःखक्लेशा:-ज्वरादयो रोगास्तेषां भाजनम् ॥ यतश्चैव| मतोऽशाश्वते शरीरे रतिं नोपलभेऽहम्, 'पश्चात्' भुक्तभोगावस्थायां 'पुरा वा' अभुक्तभोगितायां त्यक्तव्ये फेनबुद्दसन्निभे ॥ व्याधयः-अतीव बाधाहेतवः कुष्ठादयो रोगाः-ज्वरादयः ।। 'अहो !' इति सम्बोधने, “दुक्खो हु" त्ति दुःखहेतुरेवेति सूत्रसप्तकार्थः ॥ ११-१२-१३-१४-१५-१६-१७ ॥ इत्थं भवनिर्वदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाहअद्धाणं जो महंतं तु, अपाहेओ पवजई । गच्छंते से दुही होइ, छुहातण्हाहिं पीडिए ॥१८॥