SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम्। श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२६ ॥ मृगापुत्रवक्तव्यता। 'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' पूरणे, "दोगुंदुगो चेव" त्ति 'चः' पूरणे, दोगुन्दुग इव, दोगुन्दुगाश्च त्रायस्त्रिंशा देवाः, 'नित्यं भोगपरायणा दोगुन्दुगाः' इति भण्णंति ॥ "मणिरयणकोट्टिमतले" ति मणिरत्ने| रुपलक्षितं कुट्टिमतलं यस्मिन् स तथा तस्मिन् , “पासायालोयणे" त्ति 'प्रासादावलोकने' प्रासादगवाक्षे ॥ "अह तत्थ अइच्छंतं" ति 'अथ' अनन्तरं 'तत्र' तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणं संयतं, श्रमणस्य शाक्यादेरपि सम्भवात् तद्व्यवच्छेदार्थं संयतग्रहणम् । तपश्च-अनशनादि नियमाश्च-द्रव्याद्यभिग्रहाः संयमश्व-प्रतीतस्तान् धारयतीति तपोनियमसंयमधरस्तम् , अत एव शीलम्-अष्टादशशीलाङ्गसहस्ररूपं तेनाऽऽन्यं शीलाढ्यम् , तत एव गुणानां-ज्ञानादीनाम् आकर इवाऽऽकरस्तम् । तं "देहइ" त्ति पश्यति दृष्ट्या "अणिमिसाए उ" त्ति अनिमिषयैव, क 'मन्ये' जाने ईदृशं रूपं 'दृष्टपूर्व' पूर्वमप्यवलोकितं मया 'पुरा' पूर्वजन्मनि ? ॥ शेषं प्रतीतमेवेति सूत्राष्टकार्थः ॥ १-२-३-४-५-६-७-८ ॥ सम्प्रति यदसौ उत्पन्नजातिस्मरणः कृतवांस्तदाहविसएहिं अरजंतो, रजंतो संजमम्मि य । अम्मापियरं उवागम्म, इमं वयणमबवी ॥९॥ व्याख्या-"विसएहिं" ति विषयेषु 'अरजन्' अभिष्वङ्गमकुर्वन् 'रजन्' रागं कुर्वन् संयमे, 'चः' पुनरर्थे, अम्बा-पितरौ उपागम्येदं वचनमब्रवीदिति सूत्रार्थः ॥ ९॥ किं तदब्रवीत् ? इत्याह मुयाणि मे पंच महत्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु। . निविणकामो मि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो॥१०॥ व्याख्या-श्रुतानि मे पश्च महाव्रतानि, नरकेषु दुःखं च तिर्यग्योनिषु च, चस्य गम्यमानत्वाद् उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किम् ? इत्याह-निर्विण्णकामः' निवृत्ताभिलाषोऽस्मि अहम् , कुतः ? महार्णव इव महार्णवस्तस्मात् , ॥२६ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy