________________
अथ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ।
मृगापुत्रवक्तव्यता।
XXXCXCXCXCXOXOXOXOXXX
व्याख्यातमष्टादशमध्ययनम् । अधुना एकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने भोगर्द्धित्याग उक्तः, तस्माच्च श्रामण्यमुपजायते, तच्चाऽप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभद्दो तत्थ, मिगा तस्सग्गमाहिसी॥१॥ तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ नंदणे सो उ पासाए, कीलए सह इथिहिं । देवो दोगुंदुगो चेव, निचं मुइयमाणसो॥३॥ मणिरयणकोहिमतले, पासायालोयणे ठिओ। आलोएइ नगरस्स, चउक्कतियचच्चरे ॥४॥ अह तत्थ अइच्छंतं, पासई समण संजयं । तवनियमसंजमधरं, सीलहूं गुणआयरं ॥५॥ तं देहई मियापुत्ते, दिहीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिवपुत्वं मए पुरा ॥६॥ साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे। मोहंगयस्स संतस्स, जाईसरणं समुप्पन्नं ॥७॥ जाईसरणे समुप्पन्ने, मियापुत्ते महिड्डिए । सरई पोराणियं जाइं, सामन्नं च पुराकयं ॥८॥
व्याख्या-सुगमम् । नवरम्-'काननोद्यानशोभितः' इत्यत्र काननानि-बृहद्क्षाश्रयाणि वनानि, उद्यानानि-आरामाः क्रीडावनानि वा ।। "दमीसरि" त्ति दमिनाम्-उपशमिनामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ "नंदणे सो उ" त्ति
XOXOXOXOXOXOXOXOXOXOXOXOXE