SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः । | 'एके' परे सम्प्रत्यपि, क्षेत्रान्तराऽपेक्षया इत्थमभिधानम् , तथा तरिष्यन्ति 'अनागताः' भाविनो भवोदधिमिति शेष इति सूत्रार्थः ॥ ५३ ॥ यतश्चैवमतःन कहं धीरे अहेऊहिं, अत्ताणं परियावसे । सवसंगविणिम्मुक्के, सिद्धे हवइ नीरए ॥५४॥त्ति बेमि॥ | व्याख्या-कथं धीरोऽहेतुमिरात्मानं “परियावसि" त्ति पर्यावासयेत् ? कथमात्मानमहेत्वावासं कुर्यादित्यर्थः । | किं पुनरात्मनोऽहेत्वनावासकरणे फलम् ? इत्याह-सर्वे सङ्गाः-द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वाद् एत एव क्रियादिवादास्सैर्विनिर्मुक्त:-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः । तदनेनाऽहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः ॥ ५४ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। अष्टादशं संयतीयाख्यमध्ययनम्। महाबल राजस्व वक्तव्यता। ॥२५९॥ ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥ ॥२५९॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy