SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ महाबल राजस्थ वक्तव्यता। वासाइं सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा बंभलोए X कप्पे दससागरोवमठिइए देवे उववन्ने । ततो चुए सेट्टिकुलंसि वाणियगामे नगरे पुत्तत्ताए उववन्ने । तए णं से X 'सुदंसण' त्ति कयनामे उम्मुक्कबालभावे समणस्स भगवतो महावीरस्स अंतिए पवइऊण सिद्धे। एष व्याख्याप्रज्ञप्तिभणितो महाबलः परिकथितः । यदि वाऽन्यः कोऽपि विदितः समयज्ञानां ततः स एवात्र वाच्य इति सप्तदशसूत्रार्थः ।। ३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१ ॥ इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वक-1 क्रियामाहात्म्यमभिधायोपदेषुमाह कहं धीरो अहेऊहिं, उम्मत्तु व महिं चरे?। एए विसेसमादाय, सूरा दढपरकमा ॥५२॥ व्याख्या-'कथं' केन प्रकारेण धीरः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनाऽऽलजालभाषितया 'महीं' पृथिवीं 'चरेत्' भ्रमेद् ? नैव चरेदित्यर्थः । किमिति ? यतः 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वाद् मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः । अतो भवताऽपि विशेषज्ञेन धीरेण च सता अस्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ ५२ ॥ किश्च अचंतनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरितेगे, तरिस्संति अणागया ॥५३॥ व्याख्या-अत्यन्तम्-अतिशयेन निदानक्षमा-कर्ममलशोधनसमर्था, 'दैप् शोधने' इत्यस्य च निदानशब्दः सिद्धः, सत्या 'मे' मया भाषिता 'वाक्' जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाऽङ्गीकृतया 'अतार्युः' तीर्णवन्तः, सरन्ति उ०अ०४४
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy