________________
नन्दनोऽपि च गृहीतश्रामण्यः समुत्पादित केवलज्ञानः पञ्चषष्टिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः । षर्द्देिशतिर्धनूंषि | चानयोर्देहप्रमाणमासीदिति ॥
“ तहेव" सूत्रम् । तथैव 'विजयः' द्वितीयबलदेवः " आणट्ठाकित्ति” त्ति आनष्टा - समस्तकलङ्कविकलतया सामस्त्येनाऽपगता अकीर्त्तिः - अश्लाघा यस्य स आनष्टाकीर्त्तिः, प्राकृतत्वात् सिलोपः । “पवइ" त्ति प्रात्राजीत्, र राज्यं गुणैः समृद्धं सम्पन्नं गुणसमृद्धम्, तुशब्दस्याऽपिशब्दार्थत्वाद् व्यवहितसम्बन्धाच्च गुणसमृद्धमपि, “पयहित्तु" प्रहाय महायशाः । तथाहि —
असौ द्वारकावत्यां ब्रह्मराजस्य सुभद्रायाश्च राज्ञ्याः पुत्रत्वेनोत्पद्यौमापत्य द्विपिष्टवासुदेवज्येष्ठसो दर्यत्वेन सम्भूय द्विसप्ततिवर्षशतसहस्रायुष्कवासुदेवमरणानन्तरमङ्गीकृत्य श्रामण्यमुत्पादितकेवलज्ञानः पञ्चसप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य निर्वृतः । सप्ततिर्धनूंषि देहमानमस्याऽजनीति । एतौ चावश्यकनिर्युक्त्यभिहित नामो लेखेनोत्प्रेक्ष्य व्याख्यातौ । अथाऽन्यौ कौचितौ प्रतीतावागमज्ञानाम्, ततस्तावेव व्याख्येयौ ॥
“ तहेवुग्गं" सूत्रम् । तथैवोप्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिः 'आदाय' गृहीत्वा शिरसेव शिरसा शिरःप्रदानेनैव जीवितनिरपेक्षमित्यर्थः, 'श्रियं' भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तथाहि— ते काणं तेणं समएणं हत्थिणाउरे नयरे होत्था । तत्थ णं बले नामं राया । तस्स णं पभावती नाम महा देवी । | अन्नया णं सा अद्धरत्तसमयंसि पवरसयणिज्जंसि उवगया ससिसंखसेयं उरालागिइं सीहं सुमिणे पासित्ता णं पडिबुद्धा तए णं सा हट्ठतुट्ठा जेणेव बलस्स रन्नो सयणिज्जे तेणेव उवागच्छइ । तं सुमिणगं साहेइ । तए णं से बले राया तं सुमिणं सोचा हट्टतुट्ठे एवं वयासी — कल्लाणे णं तुमे देवी ! सुमिणे दिट्ठे, अत्थलाभो रज्जलाभो भोगलाभो देवाणु
XXXXXX
द्वितीयबल
देवस्य विजयनाम्नो वक्तव्यता ।
महाबल
राजस्य वक्तव्यता ।