SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ परिहारेण रूक्षं 'शीतं' हिमं 'स्पृशति' अभिद्रवति एकदा' शीतकालादौ । ततः किम् ? 'न' नैव 'अतिवेलं' वेलांस्वाध्यायादिसमयात्मिकामतिक्रम्य 'शीतेनाभिभूतोऽहम्' इति 'मुनिः' साधुः 'गच्छेत्' स्थानान्तरमभिसत्, श्रुत्वा "णमि"ति वाक्यालङ्कारे 'जिनशासन जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वाः' इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यच्च न मे निवारणं अस्थि, छवित्ताणं न विजइ । अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए॥७॥ व्याख्या-न 'मे' मम 'निवारणं' शीतवातादेर्निवारकं सौधादि 'अस्ति' विद्यते, "छवित्ताणं" त्वक्त्राणं वस्त्रकम्बलादि न विद्यते, अतोऽहं 'तुः पुनरर्थः, तद्भावना चेयं—येषां निवारणं छवित्राणं वा समस्ति ते किमित्यग्निं सेवेयुः ? अहं तु तदभावादत्राणस्तत् किमन्यत् करोमि ? इत्याग्नि सेवे इति भिक्षुः 'न चिन्तयेत्' न ध्यायेत् । चिन्ता| निषेधेन सेवनं दुरापास्तमिति सूत्रार्थः ॥ ७ ॥ । उदाहरणमाह-रायगिहे नयरे चत्तारि वयंसा वाणियगा सहवड्डिया । ते भद्दबाहुस्स अंतिए धम्म सुच्चा पवइया ।। ते सुयं बहुयं अहि जित्ता दढसत्ता एगल्लविहारपडिमं पडिवन्ना। ते य समावत्तीए विहरता पुणो वि रायगिह नयरं संपत्ता। हेमंतो य तया वट्टइ।जो य केरिसो?-वाइंति दंतवीणं, दरिद्दिणो जत्थ कंपिरसरीरा। सबसिलीभूयजला, जायंति सरा वि रयणीसु ॥ १॥ जत्थ अइसीयमारुयनिहया सउणाइणो विणस्संति । पुप्फफलदलसमिद्धा, सुकंति दुमा वि सहस त्ति ॥२॥ ते य भिक्खायरियं काउं तइयाए पोरिसीए पडिनियत्ता । तेसिं च वेभारगिरितेण गंतवं । तत्थेगस्स गिरिगुहादारे . वादयन्ति दन्तवीणां, दरिद्रिणो यत्र कम्प्रशरीराः । सर्वशिलीभूतजलानि, जायन्ते सरांस्यपि रजनीषु ॥१॥ - २ यत्राऽतिशीतमारुतनिहताः शकुनादिका विनश्यन्ति । पुष्पफलदलसमृद्धाः, शुष्यन्ति दुमा अपि सहसेति ॥२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy