SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ | श्रीअरनाथ चक्रिणो | वक्तव्यता। भरतः चक्रवर्तिभोगानुत्तमान् बुभुजे, तीर्थप्रवर्तनसमये च निष्क्रम्य षोडश वर्षाणि च विहृ त्योपविहारेण केवलज्ञानमुदपादयत् । देवाश्च समवसरणमकार्षुः । प्रत्राजिताश्च भगवता गणधराः। केवलिपर्यायेण च विहृत्य प्रभूतकालं सम्मतगिरिशिखरे मोक्षमगमत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि वर्षाणां प्रत्येकमभवत्तस्य तीर्थकृतः ॥ - “सागर" सूत्रं सुगमम् । नवरं "अरयं पत्तो" त्ति रजसः-कर्मणोऽभावोऽरजः तत्प्राप्तः प्राप्तो गतिमनुतराम् । तथाहि गजपुरे नगरे सुदर्शनस्य राज्ञो देव्याश्च राज्याः पुत्रत्वेनोत्पद्य सुरपतिनिर्वर्तितजननमहोत्सवो जननी स्वप्ने रत्नारमपश्यदिति प्रतिष्ठितअरनामा क्रमेणासादिततारुण्यो वितीर्णपितृराज्यः सम्प्राप्तचक्रवर्तिलक्ष्मीकः प्रभूतकालोपमुक्ताऽनुत्तरकामभोगो धर्मचक्रवर्तित्वं चिकीर्षुर्जरत्तृणमिव 'महापरिग्रहारम्भहेतुर्भवाम्भोधिभ्रमणनिबन्धनं चेदमिति बुद्ध्या परि| त्यज्य राज्यमङ्गीकृत्य श्रामण्यं वर्षत्रयेण चोत्पाद्य केवलज्ञानं प्रवर्त्तिततीर्थो भव्यसत्त्वप्रतिबोधननिरतः प्रतिपालितकेवलिपर्यायः सम्मेतगिरौ मोक्षमगच्छत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये चैकविंशतिवर्षसहस्राण्यतिगतानि अस्य भगवत इति ॥ "चइत्ता" सूत्रं सुगमम् । चरितं चेदम् इहेव जंबुद्दीवे दीवे भारहे वासे कुरुखेत्ते हत्थिणाउरं नयरं । तत्थ य रिसहसामिवंसप्पसूतो पउमुत्तरो नाम |राया, तस्स जाला नाम महादेवी साविया, तीए सीहसुमिणसूइतो विण्हुकुमारो नाम पुत्तो, तहा चोद्दसमहासुमिण-I सूइतो बीओ महापउमो नाम । वडिया ते दो वि देहोवचएणं कलाकलावेण य । स 'जिगीसो' त्ति पउमोत्तरेण कओ
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy