________________
उ० अ० ४
वह्नयादिना विकारं प्रापितस्य 'एषणाम्' एषणासमिति 'चरेत्' पुनः पुनः सेवेत । किमुक्तं भवति ? – एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयं गृहंस्तामुल्लङ्घयेदिति सूत्रार्थः ॥ ४ ॥ किच
छिन्नावासु पंथेसु, आउरे सुपिवासिए । परिसुक्कमुहद्दीणे, तं तितिक्वे परीसहं ॥ ५ ॥
व्याख्या- 'छिन्नापातेषु' अपगतजनसवारेषु 'पथिषु' मार्गेषु गच्छन्निति गम्यते, 'आतुरः' अत्यन्ताकुलतनुः, किमि| ति ? यतः सुष्ठु - अतिशयेन पिपासितः - तृषितः सुपिपासितः, परिशुष्कमुखः - विगत निष्ठीवनतयाऽनाद्रवदनः स चासावदीनश्च परिशुष्कमुख्यादीनः, 'तं' तृट्परीषदं 'तितिक्षेत' सहेत । अयमर्थः - विविक्तदेशस्थोऽप्यत्यन्तपिपासातोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधिमुलङ्घयेत् ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५ ॥
दृष्टान्तमाह-उज्जेणी नयरी, तत्थ धणमित्तो नाम वाणियओ, तस्स पुत्तो धणसम्मो नाम । सो धणमिसो पुत्त्रेण सह पवइओ । अन्नया य ते साहू विहरंता मज्झन्हसमए एलगच्छपुर पहे पट्टिया । सो वि खुडओ तिसाए अभिभूओ सणियं सणियमेइ । सो वि से खंतओ सिणेहाणुरागेण पच्छओ एइ । साहुणो वि पुरओ वति । अन्तरा य नई समावडिया । खंतएण भणियं - एहि पुत्त !, पियसु पाणियं नित्थरेसु आवई, पच्छा आलोएज्जासि । सो न इच्छइ । खंतो नई उत्तिन्नो, चिंतेइ य - ' ओसरामि मणागं जावेस खुडओ पाणियं पियह, मा ममाऽऽसंकाए न पाहि त्ति एगंते पडिच्छइ, जाव खुड्डो पत्तो नहं । दढवयाए सत्तसारयाए ण पीयं । अन्ने भणति -- ' अई बाहिओ हं बं पिबामि पाणियं, पच्छा गुरुमूले पायच्छित्तं पडिवज्जिस्सामि' ति उक्खितो जलजली । अह से चिंता जाया कहमेए हलाहलए जीवे पिबामि ? । जओ — ऐकम्मि उद्गबिंदुम्मि, जे जीवा जिणबरेहिं पन्नत्वा । ते पारेवयमेत्ता,
१ एकस्मिकबिन्दी, ये जीवा जिनवरैः प्रज्ञप्ताः । ते पारापतमात्रा, जम्बूद्वीपे न मायेयुः ॥ १ ॥
XOXOXOXOXOXO