________________
चेचा रटुं पवइओ, खत्तिए परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥२०॥ सञ्जयकिंणामे? किंगोत्ते?, कस्सऽट्ठाए व माहणे? कहं पडियरसी बुद्धे ?, कहं विणीय त्ति वुच्चसी?॥२२॥ राजर्षे___ व्याख्या-त्यक्त्वा राष्ट्र प्रव्रजितः 'क्षत्रियः' अनिर्दिष्टनामा परिभाषते सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि
शीर्वक्तव्यता। वैमानिक आसीत्, ततश्श्युत्वा क्षत्रियकुलेऽजनि, तत्र च कुतश्चित् तथाविधनिमित्ततः स्मृतपूर्वजन्मा, तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , विहरंश्च सञ्जयमुनिं दृष्ट्वा तद्विमर्शार्थमिदमुक्तवान् यथा ते दृश्यते रूपं 'प्रसन्नं' विकाररहितं 'ते' तव 'तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः 'मनः' चित्तम् , अन्तःकलुषितायां हि बहिरप्येवं प्रसन्नताऽसम्भवः॥ तथा किं नामा? किं गोत्रः ? "कस्सऽढाए व"त्ति कस्मै वा अर्थाय 'माहनः' प्रबजितः ? 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे 'बुद्धान्' आचार्यादीन् ? कथं विनीत इत्युच्यसे ? इति सूत्रद्वयार्थः ॥ २०-२१ ॥ सञ्जयमुनिराहसंजओ नाम नामेणं, तहा गोत्तण गोयमे । गद्दभाली ममायरिया, विजाचरणपारगा॥ २२॥।
व्याख्या-सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति गम्यते । शेषप्रश्नत्रयनिर्वचनमाह-गईभालयो मम आचार्याः 'विद्याचरणपारगाः' श्रुतचारित्रपारगताः । एवं च वदतोऽयमाशयः-यतो गर्दभाल्यमिधानाचार्जीवघातान्निवर्तितोऽहम् , विद्याचरणपारगत्वाच्च तैस्तनिवृत्तौ मुक्तिलक्षणं फलमुक्तम् , ततस्तदर्थं माहनोऽस्मि । यथा च तदुपदेशस्तथा गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ॥ २२ ॥ इत्थं विमृश्य तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहकिरियं अकिरियं विणयं, अन्नाणं चमहामुणी।। एतेहिं चउहिं ठाणेहिं, मेयन्ने किं पभासइ?॥२३॥
व्याख्या-'क्रिया' अस्तीत्येवंरूपा, प्राकृतत्वाद् नपुंसकनिर्देशः, 'अक्रिया' तद्विपरीता, 'विनयः नमस्करणादिः,
XXXXXXXXXXXX