________________
अष्टादशं
संयतीयाख्यमध्ययनम्।
सञ्जयराजवक्तव्यता।
श्रीउत्तरा- चलनं तद्वत् चञ्चलं 'यत्र' जीविते रूपे च त्वं मुह्यसि राजन् ! 'प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे ॥ तथा "दाराणि य" ध्ययनसूत्रे
त्ति दाराश्च सुताश्चैव मित्राणि च तथा बान्धवा जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्तायुपभोगत उपजीवन्ति, मृतं श्रीनेमिच
नानुव्रजन्त्यपि, किं पुनः सह यास्यन्ति ?, चशब्दस्य अप्यर्थत्वादिति, अतो दारादिष्वपि कृतघ्नेषु नाऽऽस्था विधेयेति भावः॥ न्द्रीया
पुनस्तत्प्रतिबन्धनिराकरणायाह-"नीहरंति" त्ति निस्सारयन्ति मृतं पुत्राः पितरं 'परमदुःखिताः' अतिशयदुःखिता अपि, सुखबोधा
पितरोऽपि तथा पुत्रान् , “बंधु" त्ति बन्धवश्व बन्धूनिति शेषः, ततो राजन् ! तपः 'चरेः' आसेवस्व ।। अपरञ्च-'ततः ख्या लघु
निःसारणादनन्तरं 'तेन' पित्रादिना अर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन दारैश्चेति गम्यते वृत्तिः ।
अन्ये नरा राजन् ! 'हृष्टतुष्टाऽलङ्कृताः' तत्र हृष्टाः-बहिःपुलकादिमन्तः तुष्टाः-आन्तरप्रीतिभाजः अलङ्कृताः-विभूषिताः, ॥२२९॥॥
| यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति सम्बन्धः। मृतस्य को वृत्तान्तः ? इत्याह तेनाऽपि यत् कृतं कर्म शुभं| वा 'यदि वा' इति अथवा अशुभं कर्मणा तेनैव न तु धनादिना संयुक्तो गच्छति, तुशब्दो योजित एव, “परम्' अन्यं भवम् , यतश्च शुभाशुभयोरनुयायिता ततः शुभहेतुं तपश्चरेरिति भाव इति सूत्रसप्तकार्थः ॥११-१२-१३-१४-१५
१६-१७ ॥ ततस्तद्वचः श्रुत्वा राजा किमचेष्टत ? इत्याहIS| सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगणिवेगं, समावन्नो नराहिवो ॥१८॥ |संजओ चइउं रजं, णिक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥
व्याख्या-सुगममेव । नवरं "महय" त्ति महता आदरेणेति शेषः, सुब्व्यत्ययात् महत् 'संवेगनिर्वेदं तत्र संवेगःमोक्षाऽभिलाषः निर्वेदः-संसारोद्विमता ॥ १८ ॥ १९॥ स चैवंगृहीतप्रव्रज्योऽवगतहेयोपादेयविभागो दशविधचक्रवालसामाचारीरतश्च अनियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यद्भूत् तदाह
OXOXOXOXOXOXOXOXOX
॥२२९॥