SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सञ्जयराजवक्तव्यता। AAIकि यथा-अहं क्षमिष्ये न वेति, 'ततः' कारणाद् राजा 'भयद्रुतः' भयत्रस्तः, यथा-न ज्ञायते किं किमेष क्रुद्धः राति उक्तवांश्च-यथा सञ्जयनामा राजा अहमस्मि न तुनीच इत्यभिप्रायः, 'इति' अस्माद हेतोभगवन् ! Ter सम्भाषय 'मे' इति माम् । स्यात्-किमेवं भवान् भयद्रुतः ? इत्याह-ऋद्धः तेजसा तेजोलेश्यादिना नगारो दहेद नरकोटीः आस्तां शतं सहस्रं वेति, अतो भयद्रुतोऽहमिति सूत्रचतुष्टयार्थः॥ ७-८-९-१०॥ इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाहअभयं पस्थिवा! तुभं, अभयदाया भवाहिय। अणिचे जीवलोगम्मि, किंहिंसाए पसज्जसि?॥१२॥ जया सचं परिचज, गंतवमवसस्स ते। अणिचे जीवलोगम्मि, किं रजम्मि पसज्जसि?॥१२॥ जीवि चेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुज्झसि रायं, पेच्चत्थं णावबुज्झसे ॥१३॥ दाराणिय सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति य॥१४॥ णीहरंति मयं पुत्ता, पियरं परमदुक्खिया। पियरो वि तहा पुत्ते, बंधू रायं! तवं चरे ॥१५॥ ततो तेणज्जिए दवे, दारे य परिरक्खिए । कीलंतऽन्ने नरा रायं, हहतुट्ठमलंकिया ॥१६॥ तेणावि जं कयं कम्म, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥१७॥ व्याख्या-अभयं पार्थिव! तव । इत्थं समाश्वास्योपदेशमाह-अभयदाता च भव, यथा भवतो मृत्युभयम् एवमन्येपामपीति भावः, चशब्दो योजित एव । अनिये जीवलोके किं हिंसायां प्रसजसि ? नरकहेतुरियं न कर्तुमुचितेति भावः ।। अन्यच्च-यदा 'सर्व' कोशान्तःपुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः 'अवशस्य' अस्वतन्त्रस्य 'ते' तव, ततोऽउ०म०३९ नित्ये जीवलोके किं राज्ये प्रसजसि ॥ जीवलोकानित्यत्वमेव भावयितुमाह-जीवितं चैव रूपं च विद्युत्सम्पातः-विद्यु-%
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy