________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२८ ॥
अप्फोवमंडवम्मी झायई झवियासवे । तस्सागए मिगे पासं, वहेइ से णराहिवे ॥ ५ ॥
व्याख्या—‘अथ' अनन्तरं केसरे उद्याने अनगारः तपोधनः स्वाध्यायध्यानसंयुक्तः अत एव धर्मध्यानं ध्यायति ॥ "अप्फोवमंडवम्मि" ति अप्फोव इति-वृक्षाद्याकीर्णः स चासौ मण्डपश्च- नागवहयादिसम्बन्धी अप्फोवमण्डपस्तस्मिन् | ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानम् अतिशयख्यापकम्, “झविय" त्ति क्षपिता आश्रवाः - हिंसादयो येन स तथा, 'तस्य' अनगारस्य 'आगतान्' मृगान् 'पार्श्व' समीपं हन्ति स नराधिप इति सूत्रद्वयार्थः ॥ ४-५ ॥
अह आसगओ राया, खिप्पमागम्म सो तहिं । हुए मिगे उपासित्ता, अणगारं तत्थ पासई ॥ ६ ॥ व्याख्या – 'अथ' अनन्तरम् अश्वगतो राजा क्षिप्रमाऽऽगत्य सः 'तस्मिन् ' मण्डपे हतान् "मिगे उ" त्ति मृगानेव न पुनरनगारमित्यर्थः दृष्ट्वा अनगारं तत्र पश्यति च इति सूत्रार्थः ॥ ६ ॥ ततः किमकार्षीत् ? इत्याहअह राया तत्थ संभंतो, अणगारो मणाऽऽहओ । मए उ मंदपुन्नेणं, रसगिद्वेण घत्तुणा ॥ ७ ॥ आसं विसज्जइत्ता णं, अणगारस्स सो णिवो। विणएणं वंदई पाए, भगवं । एत्थ मे खमे ॥ ८ ॥ अह मोणेण सो भगवं, अणगारे झाणमस्सिए । रायाणं ण पडिमंतेइ, तओ राया भयहुओ ॥ ९ ॥ संजओ अहमस्सी ति, भगवं ! वाहराहि मे । कुद्धे तेएण अणगारे, डहेज णरकोडिओ ॥ १० ॥
व्याख्या— अथ राजा 'तत्रे'ति तद्दर्शने सति 'सम्भ्रान्तः ' भीतो यथा अनगारो 'मनाक्' स्तोकेनैव आहतः, तदासन्न - मृगहननाद् इत्यभिप्रायः, मया 'तुः' पूरणे, मन्दपुण्येन रसगृद्धेन “घत्तुण" त्ति 'घातुकेन' हननशीलेन ॥ ततश्च अश्वं 'विसृज्य' विमुच्य " " प्राग्वद् अनगारस्य स नृपः विनयेन वन्दते पादौ वक्ति च - यथा भगवन् ! 'अत्र' मृगवघे ममापराधमिति शेषः क्षमस्व ॥ अथ मौनेन स भगवान् अनगारो ध्यानम् 'आश्रितः' स्थितो राजानं 'न प्रतिमन्त्रयते'
अष्टादशं संयती
याख्यम
ध्ययनम् ।
सञ्जयराज
वक्तव्यता ।
॥ २२८ ॥