________________
अथ संयतीयाख्यमष्टादशमध्ययनम् ।
सञ्जयराजवक्तव्यता।
8XXXXXXXXXXXXX
उक्तं सप्तदशमध्ययनम् । अधुना संयतीयाख्यमष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने पापस्थानवर्जनमुक्तम् , तच्च संयतस्यैव, स च भोगर्द्धित्यागत एवेति स एव सञ्जयोदाहरणत इहोच्यते' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रम्
कंपिल्ले नगरे राया, उदिन्नबलवाहणो । णामेणं संजए णाम, मिग, उवणिग्गए ॥१॥ व्याख्या-काम्पिल्ये नगरे राजा, उदीर्णम्-उदयप्राप्तं बलं-चतुरङ्गं वाहनं च-गिल्लिथिल्ल्यादिरूपं यस्य सः, तथा स - च नाम्ना सञ्जयः 'नामे'ति प्राकाश्ये, ततः सञ्जय इति प्रसिद्धः, 'मृगव्यां' मृगयां, पाठान्तरेण मृगवधं वा प्रतीति शेषः, 'उपनिर्गतः' निर्यातः तत एव नगरादिति गम्यते इति सूत्रार्थः॥१॥ स च कीदृग् विनिर्गतः ? किं च कृतवान् ? इत्याह__हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सबओ परिवारिए ॥२॥
मिए छुभित्ता हयगओ, कंपिल्लुज्जाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥
व्याख्या-सुव्यत्ययाद् हयानीकेन गजानीकेन रथानीकेन, तथैव च पदातीनां समूहः पादातं तदनीकेन महता सर्वतः परिवारितः मृगान् ‘क्षित्वा' प्रेरयित्वा हयगतः' अश्वारूढः, "कंपिल्लुजाणकेसरे" त्ति काम्पिल्यस्य सम्बन्धिनि केशरनाम्न्युद्याने 'भीतान् त्रस्तान 'श्रान्तान्' इतस्ततः प्रेरणेन खिन्नान् ‘मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये "वहेइ" त्ति हन्ति रसमूञ्छित इति सूत्रद्वयार्थः ॥२-३ ॥ अत्रान्तरे यदभूत् तदाहअह केसरम्मि उजाणे, अणगारे तवोधणे । सज्झायझाणसंजुत्ते, धम्मज्झाणं झियायइ॥४॥