SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ १७ ॥ XOXOXOX XOXOXOXXX अंज्ञानं, दर्शनं - सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं परीषहो दर्शन परीषहः ॥ इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽभिधित्सुः सम्बन्धार्थत्वमाह - परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुधिं सुणेह मे ॥ १ ॥ व्याख्या – 'परीषहाणाम्' अनन्तरोक्तानां ' प्रविभक्तिः' पृथक्स्वरूपतारूपः प्रविभागः 'काश्यपेन' महावीरेण 'प्रवेदिता' प्ररूपिता, तां “भे" भवतां 'उदाहरिष्यामि' प्रतिपादयिष्यामि 'आनुपूर्व्या' क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरत इति सूत्रार्थः ॥ १ ॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसहः, उक्तश्च – “पंथसमा नत्थि जरा, दारिद्दसमो य परिभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥ १ ॥” इति आदितस्तमाह दिगिंछा परिगए देहे, तवस्सी भिक्खू थामवं । ण छिंदे ण छिंदावए, न पए न पयावए ॥ २ ॥ व्याख्या—'दिगिंछापरिगते' क्षुधाव्याप्ते 'देहे' शरीरे सति 'तपस्वी' विकृष्टाष्टमादितपोऽनुष्ठानवान् 'मिक्षुः' यतिः 'स्थामवान्' संयमे बलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः फलादिकमिति शेषः तथा न पचेत्, न चाऽन्यैः पाचयेत् उपलक्षणत्वाच्च नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत; तत एव न स्वयं क्रीणीयाद् नाऽपि क्राययेदन्यैः न चापरं क्रीणन्तमनुमन्येत, क्षुत्पीडितोऽपि न नवकोटिशुद्धिबाधां विधत्त इतिभाव इति सूत्रार्थः ॥ २ ॥ किञ्च - कालीपवंगसंकासे, किसे धमणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ॥ ३ ॥ १ पथः समा नास्ति जरा, दारिद्र्यसमश्च परिभवो नास्ति । मरणसमं नास्ति भयं क्षुधासमा वेदना नास्ति ॥ १ ॥ XO-XO-XO-XO-XO-XO-XO-XO-XO-XO-XO-XO-XOX द्वितीयं परीषहाध्ययनम् ! ॥ १७ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy