________________
व्याख्या-'इमें अनन्तरं वक्ष्यमाणत्वाद् हृदि परिवर्त्तमानतया प्रत्यक्षाः 'ते' इति ये त्वया पृष्टाः, शेषं प्राग्वत् ।
तंजहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीअपरीसहे ३ उसिणपरीसहे ४ दसमसयपरीसहे ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहे ८ चरिआपरीसहे ९ णिसीहिआपरीसहे १० सिजापरीसहे ११ अक्कोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे |१५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरकारपरीसहे १९ पण्णापरी
सहे २० अण्णाणपरीसहे २१ दंसणपरीसहे २२॥ ___ व्याख्या-तद्यथा' इत्युपन्यासार्थः । दिगिच्छा-देशीपरिभाषया बुभुक्षा, सैवात्यन्तव्याकुलताहेतुरप्यसंयमभीरुतया आहारपाकप्रासुकानेषणीयभुक्तिवाञ्छाविनिवर्त्तनेन परि-समन्तात् सह्यत इति परीषहो दिगिच्छापरीषहः । पिपासातृष्णा सैव परीषहः पिपासापरीषहः, एवमन्यत्राऽपि । नवरं शीतं-शीतस्पर्शः, उष्णं-निदाघादितापात्मकं, दंशमशका:प्रतीताः यूकाद्युपलक्षणं चैते, अचेलं-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नम् अल्पमूल्यञ्च चेलमप्यचेलम् , रैतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, स्त्री-रामा सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि तदमि| लापनिवर्त्तनेन परीषह्यमाणत्वात् परीषहः स्त्रीपरीषहः, चर्या-प्रामानुग्रामविहरणात्मिका, नैषेधिकी-श्मशानादिका | स्वाध्यायभूमिः, शय्या-उपाश्रयः, आक्रोशः-सत्यभाषणात्मकः, वैधः-ताडनं, याचना-प्रार्थना, अलौभा
अभिलषितविषयाऽप्राप्तिः, रोगः- कष्टादिरूपः, तृणस्पर्शः-दर्भादिस्पर्शः, जल्ल:-मलः, सत्कार:-वस्त्रादिमिः पूजनं पुरस्कार:-अभ्युत्थानाऽऽसनादिसंपादनम्, प्रज्ञा-स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः, ज्ञान-मत्यादि तदभावस्तु