________________
1663
'आसने पीठादौ 'अनायुक्तः' अनुपयुक्तः सन् , शेषं प्राग्वत् ॥ १३ ॥ तथा सरजस्कपादः स्वपिति, किमुक्तं भवति ?- पापस्थानअसंयम प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा 'शय्यां' वसतिं न प्रतिलेखयति, 'संस्तारके' कम्बलादौ सुप्त इति | वर्जनशेपः, 'अनायुक्तः' "कुकुडिपायपसारण आयामेउं पुणो वि आउंटे" इत्याद्यागमानुपयुक्तः, शेषं तथैव ॥ १४ ॥ तपो- वक्तव्यता। | विषयं पापश्रमणत्वमाह-"दुद्धदहि" ति दधिदुग्धे, विकृतिहेतुत्वाद् विकृती, उपलक्षणत्वाद् घृताद्यशेषविकृतिपरिग्रहः,
आहारयति 'अभीक्ष्णं' वारं वारं तथाविधपुष्टालम्बनं विनेति भावः, अत एव अरतश्च 'तपःकर्मणि' अनशनादौ, शेषन प्राग्वत् ॥ १५ ॥ तथा अस्तमयति 'चः' पूरणे सूर्ये आहारयति 'अभीक्ष्णं' पुनः पुनर्दिने दिने इत्यर्थः, यदि चासौ केनचिद् गीतार्थसाधुना चोद्यते, यथा-आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ? दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एतामवाप्य तपस्युद्यन्तुमुचितमिति, ततः किम् ? इत्याह-"चोइओ पडिचोएइ" त्ति चोदितः । प्रतिचोदयति, यथा-कुशलस्त्वमुपदेशदाने न बु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान् न विकृष्टतपोऽनु| तिष्ठति ?, शेषं तथैव ॥ १६ ॥ 'आचार्यपरित्यागी' ते हि तपःकर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बाल|ग्लानादिभ्यो दापयन्ति, अतोऽतीवाहारलोभेन तत्परित्यजनशीलः । परपाषण्डान्-सौगतादीन "मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्यभिप्रायवतोऽत्यन्ताहारप्रसक्तान् सेवते तथा तथोपसर्पति इति परपाषण्डसेवकः, तथा स्वेच्छाचारितया गणाद् गणं षण्मासाभ्यन्तर एव सङ्कामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, अत एव दुष्टं भूतं-जातमस्य 'दुर्भूतः' दुराचारतया निन्द्यो भूत इत्यर्थः ॥१७॥ वीर्याचारविषयमाह-स्वकं गृहं परित्यज्य परगेहे "वावडि" त्ति 'व्याप्रियते' पिण्डाद्यर्थी स्वतस्तत्कृत्यानि कुरुते, 'निमित्तेन च' शुभाशुभकथनादिना 'व्यवहरति' द्रव्याद्यर्जनं करोति ॥ १८ ॥
१ "कुकुटीवत्पादप्रसारणं आयम्य पुनरपि भाकुञ्जयेत् ।"