________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ २२६ ॥
XXXXXX
केन्द्रियोपलक्षणं चैतद्, अत एवाऽसंयतः, तथा “संजय मन्त्रमाणे" त्ति कोऽर्थः ? संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तम्, शेषं प्राग्वत् || ६ || तथा 'संस्तारकं' कम्बलादि 'फलकं' दारुमयं 'पीठम् ' आसनं 'निषद्यां' स्वाध्यायभूमिं 'पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिना, उपलक्षणत्वाद् अप्रत्युपेक्ष्य च 'आरोहति ' उपविशति यः स पापश्रमण इत्युच्यते ॥ ७ ॥ तथा ' दवदवस्स” त्ति 'द्रुतं द्रुतं' तथाविधालम्बनं विनाऽपि त्वरितं त्वरितं 'सञ्चरति' मिक्षाचर्यादिषु पर्यटति 'प्रमत्तश्च' प्रमादवांश्च भवति इति शेषः, 'अभीक्ष्णं' पुनः पुनः 'उल्लङ्घनश्र्च' वत्सडिम्भादीनामधः कर्त्ता, 'चण्ड' आरभटवृत्त्याऽऽश्रणयतः । चरमपादोऽत्रोत्तरत्र च प्राग्वत् ॥ ८ ॥ तथा प्रतिलेखयति प्रमत्तः सन्, 'अपोज्झति' यत्र तत्र निक्षिपति, किं तत् ? 'पादकम्बलं' पादपुञ्छनम्, समस्तोपध्युपलक्षणमेतत् स एवं 'प्रतिलेखनाऽनायुक्तः' प्रत्युपेक्षाऽनुपयुक्तः ॥ ९ ॥ तथा प्रतिलेखयति प्रमत्तः स किञ्चिदपि 'हुः' अप्यर्थे विकथादीति गम्यते, 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भावः । गुरून् परिभावयति गुरुपरिभावको नित्यम्, किमुक्तं भवति ? – असम्यक्प्रत्युपेक्षमाणः अन्यद्वा वितथमाचरन् गुरुभिश्वोदितस्तानेव अभिभवति, यथा - स्वयमेव प्रत्युपेक्षध्वम्, युष्माभिरेव वयमित्थं शिक्षिताः ततो युष्माकमेवैष दोष इत्यादि ॥ १० ॥ किञ्च - 'बहुमायी' प्रभूतवञ्चनाप्रयोगवान् 'प्रमुखरः ' प्रकर्षेण मुखरः स्तब्धः लुब्धः 'अनिग्रहश्च' अविद्यमानेन्द्रियनिग्रहः 'असंविभागी गुरुग्लानादीनामुचितमशनादि न यच्छति, “अचियत्ते" त्ति गुर्वादिष्वप्यप्रीतिमान् शेषं तथैव ॥ ११ ॥ तथा 'विवाद' वाक्कलहं 'चः' पूरणे 'उदीरयति' कथञ्चिदुपशान्तमपि उत्प्रासनादिना प्रवृद्धिं नयति, 'अधर्मः' निर्धर्मः, आप्तां - सद्बोधरूपतया हितां प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आप्तप्रज्ञाहा, 'न्युद्धहे' दण्डादिघातजनिते विरोधे 'कलहे' वाचिके 'रक्तः' सक्तः, शेषं प्राग्वत् ॥ १२ ॥ तथा अस्थिरासनः कुकुचः प्राग्वत् । 'यत्र तत्र' संसक्तसरजस्कादावपीत्यर्थः निषीदति
सप्तदशं पापश्रमणीयाख्य
मध्ययनम् ।
पापस्थान
वर्जन
वक्तव्यता ।
॥ २२६ ॥