________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२५ ॥
XCXXXXXXX CXCXCXXX
ममाsस्ति, किन उत्पद्यते' जायते 'भोक्तुं' भोजनाय तथैव 'पातुं' पानाय, यथाक्रममशनं पानं चेति शेषः, तथा 'जानामि' अवगच्छामि 'यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन् !' इति प्रेरयितुरामन्त्रणम् 'इति' एतस्माद् हेतोः 'किं नाम ?' न किश्चिदित्यर्थः, "काहामि" त्ति करिष्यामि 'श्रुतेन' आगमेनाऽधीतेनेत्यध्याहारः, 'भदन्ते 'ति पूज्यामन्त्रणम्, इह च प्रक्रमादाक्षेपे किंशब्दः । अयं हि किलास्याशयः - 'यथा ये भवन्तोऽधीयन्ते तेऽपि नातीन्द्रियं वस्तु किननाऽवबुध्यन्ते, तत् किं हृदयगलतालुशोपविधायिनाऽधीतेन ?' इत्येवमध्यवसितो यः स पापश्रमण इत्युच्यते इतीहाऽपि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ।। १-२ ।। किच
जे केइ पवईए, णिद्दासीले पगामसो भोच्चा । पेच्चा सुहं सुयइ, पावसमणि त्ति वुच्चई ॥ ३ ॥ व्याख्या - यः कश्चित् प्रत्रजितः 'निद्राशीलः' निद्रावान् 'प्रकामशः ' बहुशः 'भुक्त्वा' दध्यौदनादि 'पीत्वा' तत्रादि 'सुखं' | यथाभवत्येवं सकलक्रियानुष्ठाननिरपेक्ष एव 'स्वपिति' शेते स इत्थम्भूतः पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ ३॥ तथाआयरियउवज्झाएहिं, सुयं विणयं च गाहिए । ते चैव खिंसई बाले, पावसमणि त्ति वुच्चई ॥४॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूयए थद्धे, पावसमणि त्ति वुचई ॥ ५ ॥ व्याख्या - आचार्योपाध्यायैः श्रुतं विनयं च 'प्राहितः' शिक्षितो यैरिति गम्यते 'तानेव' आचार्यादीन् 'खिंसति' निन्दति 'बाल:' विवेकविकलो यः स पापश्रमण इत्युच्यत इति ॥ आचार्योपाध्यायानां 'सम्यग् ' अवैपरीत्येन 'न प्रतितप्यते' न तत्तप्तिं विधत्ते, तथा 'अप्रतिपूजकः' केनचित् साधुनोपकृतेऽपि न प्रत्युपकारकारी 'स्तब्ध:' गर्वाध्मात आत्मानमेव बहुमन्यते यः स पापश्रमण इति सूत्रद्वयार्थः ॥ ४-५ ॥ चारित्रविषयं तमाह — इत्थं विनयरहितं पापश्रमणमभिधाय चरणकरणविकलं तमेवाह
सप्तदशं पापश्रमणीयाख्य
मध्ययनम् ।
पापस्थान
वर्जनवक्तव्यता ।
॥२२५॥