________________
अथ पापश्रमणीयाख्यं सप्तदशमध्ययनम् ।
व्याख्यातं षोडशमध्ययनम् । अधुना पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायममिसम्बन्धः - ' इहाऽनन्तराध्ययने दश ब्रह्मचर्यगुप्तय उक्ताः, ताञ्च पापस्थानवर्जनादेवाऽऽसेवितुं शक्यन्ते इति पापश्रमणस्वरूपाभिधानतस्तदेव का कोच्यते ' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रद्वयम् —
XCXCXCXXXX
जे केइ उ पचइए नियंठे, धम्मं सुणेत्ता विणओववन्ने ।
सुदुल्लहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ १ ॥ सेज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भोत्तु तहेव पाउं ।
जाणामि जं वइ आउसु ! त्ति, किं नाम काहामि ? सुएण भंते ! ॥ २ ॥
व्याख्या- 'यः कश्चित्' इत्यविविक्षितविशेषः 'तुः' पूरणे, 'प्रव्रजितः' निष्क्रान्तो निर्मन्थः प्राग्वत् । कथं पुनरयं प्रत्रजितः ? इत्याह – 'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा' निशम्य विनयेन - ज्ञानाद्युपचारात्मकेनोपपन्नः - युक्तो विनयोपपन्नः सन् 'सुदुर्लभम् ' अतिशयदुष्प्रापं "लभिउं" ति लब्ध्वा 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रत्रजित इत्युक्तं भवति । स किम् ? इत्याह – 'विहरेत्' चरेत् 'पश्चात्' प्रत्रजितोत्तरकालं 'च' पुनरर्थो विशेषद्योतकः, ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा तथा निद्राविकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्य एवकारार्थत्वाद् यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थः । स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाह — 'शय्या' वसतिः 'दृढा' वातातपजलाद्युपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे'
पापस्थानवर्जनवक्तव्यता |