________________
दश ब्रह्मचर्यसमाधि| स्थानानि ।
KXXXXXXXXXXXX
व्याख्या-स्पष्टमेव, नवरं कामस्य गुणाः-उपकारकाः कामगुणा इति सूत्रदशकार्थः ॥ १० ॥ सम्प्रति यत् प्राक् प्रत्येकमुक्तं शङ्का वा भवेदित्यादि तद् दृष्टान्ततः स्पष्टयितुमाह
आलओ थीजणाइन्नो, थीकहाय मणोरमा। संथवो चेव णारीणं, तासिं इंदियदरिसणं ॥११॥ कूइयं रुदियंगीयं, हसियं भुत्तासियाणि यापणीयं भत्तपाणंच, अतिमायं पाणभोयणं ॥१२॥ गत्तभूसणमिटुं च, कामभोगा य दुजया। नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥१३॥ व्याख्या-सूत्रत्रयमपि प्रतीतम् , नवरं भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि-भोगरूपाणि आसितानिख्यादिभिरेव सहाऽवस्थितानि, हास्याद्युपलक्षणमेतत् , गात्रभूषणमिष्टं चेति, चशब्दोऽप्यर्थः, तत इष्टमप्यास्तां विहितम् , विषं तालपुटं 'यथेति यथा तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकारणतया संयमरूपभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ॥ ११-१२-१३ ॥ सम्प्रति निगमयितुमाहदुजए कामभोगे य, णिचसो परिवजए । संकाठाणाणि सवाणि, वजेज्जा पणिहाणवं ॥१४॥ धम्माराम चरे भिक्खू, धिईमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥१५॥ व्याख्या-दुर्जयान् कामभोगान् “निच्चसो" त्ति नित्यं परिवर्जयेत् , 'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्य भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेत् 'प्रणिधानवान्' एकाग्रमनाः ॥ एतद्वर्जकश्च किं कुर्याद् ? इत्याह-धर्म आराम इव दुःखसन्तापतप्तानां निर्वृतिहेतुतया धर्मारामस्तस्मिन् चरेद् भिक्षुः धृतिमान , 'धर्मसारथिः' अन्येषामपि धर्मप्रवर्तयिता, धर्मे आरमन्ते धर्मारामाः-सुसाधवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतः, 'दान्तः' उपशान्तो ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ॥ १५॥ ब्रह्मचर्यविशुद्ध्यर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह
XXXXXXXXXOXOXOXON