________________
उ० अ० ३८
XCX8X8X
श्रमणीराश्रित्याऽयम् — “अट्ठेमी-पक्खिए मोतुं, वायणाकालमेव य । सेसकालमयंतीओ, नेयाओ अकालचारीओ ॥१॥” चशब्दात् पण्डकादिभिर्ब्रह्मचर्यस्य रक्षणार्थमालयं तमिति गम्यते, 'तुः' पूरणे, निषेवते । तथा मनः प्रह्लादजननीं, कामराग:-विषयाभिष्वङ्गः तद्विवर्द्धनीम्, शेषं स्पष्टम् ॥ १-२ ॥
समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, णिचसो परिवज्जए ॥ ३ ॥ व्याख्या – 'समं च' सह 'संस्तवं' परिचयं स्त्रीभिर्निषद्या प्रक्रमाद् एकासनभोगेनेति गम्यते, शेषं स्पष्टम् ॥ ३ ॥ अंग-पच्चंग ठाणं, चाल्लवियपेहियं । वंभचेररओ थीणं, चक्खुगेज्झं विवज्जए ॥ ४ ॥
व्याख्या - अङ्गानां - शिरः प्रभृतीनां प्रत्यङ्गानां - कुचकक्षादीनां संस्थानम् - आकारः अङ्गप्रत्यङ्गसंस्थानं, चारु - शोभनम् उल्लपितं प्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ग्राह्यं सद् विवर्जयेत् । किमुक्तं भवति ? — चक्षुषि सति रूपग्रहणमवश्यम्भावि, परं तद्दर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशतः पुनः पुनस्तदेव वीक्षणीयम् । उक्तं हि— "असेकं रूपमद्दहुँ, चक्खुगोयरमागयं । रागद्दोसे उ जे तत्थ, ते बुहो परिवज्जए ॥ १ ॥” ॥ ४ ॥
क्रूइयं रुइयं गीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोयगेज्झं विवज्जए ॥ ५ ॥ व्याख्या - सुगममेव, नवरं कूजितादि विवर्जयेत् । कुड्यान्तरादिष्विति शेषः ॥ ५ ॥ हासं खिडुं रतिं दप्पं, सहसाऽवत्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइ वि ॥ ६ ॥ व्याख्या—हासं प्रतीतम्, 'क्रीडां' द्यूतरमणादिरूपाम्, 'रतिं' कान्ताऽङ्गसञ्जनितां प्रीतिम्, 'दर्पं' मानिनीमानद
१ “अष्टमी - पाक्षिके मुक्त्वा, वाचनाकालमेव च । शेषकालमायान्त्यो, ज्ञेया अकालचार्यः ॥१॥” “अशक्यं रूपमद्र, चक्षुर्गेचरमागतम् । रागद्वेषौ तु यौ तन्त्र, तौ बुधः परिवर्जयेत् ॥ १ ॥”
QX8XQXXXXX
दश ब्रह्मचर्यसमाधिस्थानानि ।