________________
भिक्षोर्गुणवक्तव्यता।
आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च ।
णो हीलए पिंडं णीरसंतु, पंतकुलाई परिवए स भिक्खू ॥१३॥ . व्याख्या सामन्यायामकम् अवश्रावण
व्याख्या-आयाममेव 'आयामकम् अवश्रावणं 'चः' समुच्चये, 'एवः' पूरणे, 'यवोदनं च' यवभक्तं 'शीतं' शीतलं X सौवीरं च-काञ्जिकं यवोदकं च-यवधावनं सौवीरयवोदकम् , तच्च 'नो हीलयेत्' धिगिदं किमनेनानिष्टेन ? इति न
निन्देत् , 'पिण्डम्' आयामकादि एव नीरसमपि, तुशब्दस्य अप्यर्थत्वाद् अत एव प्रान्तकुलानि यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ अन्यच्च
सद्दा विविहा भवंति लोए, दिवा माणुस्सया तहा तिरिच्छा।
भीमा भयभेरवा उराला, जो सोचा ण विहेजई स भिक्खू ॥१४॥ व्याख्या-शब्दाः 'विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारा भवन्ति लोके 'दिव्याः' देवसम्बन्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिनः, तथा 'तैरश्चाः' तिर्यक्सम्बन्धिनः 'भीमाः' रौद्राः, भयेन भैरवाः-अत्यन्तसाध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तः, यः श्रुत्वा प्रक्रमात् तानेव शब्दान् 'न व्यथते' धर्मध्यानतो न चलति स भिक्षुरिति सूत्रार्थः ॥ १४॥ इत्येतावता सिंहविहारितायां निमित्तमुक्तम् , सम्प्रति समस्तधर्ममूलसम्यक्त्वस्थैर्यमाह
वायं विविहं समिच लोए, सहिए खेयाणुगए य कोवियप्पा।
पन्ने अभिभूय सबदंसी, उवसंते अविहेडए स भिक्खू ॥१५॥ व्याख्या-वाद 'विविधं' "मुण्डस्य भवति धर्मः, तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि वसतां भवति धर्मः ॥ १॥” इत्यादिदर्शनान्तराभिप्रायरूपं 'समेत्य' ज्ञात्वा लोके सहितः प्राग्वत्, खेदयत्यनेन कर्मेति