________________
ओवरथं चरेज्ज लाढे, विरए वेदवियाऽऽयरक्खिए ।
पन्ने अभिभूय सङ्घदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥ २ ॥
व्याख्या - " रागोवरयं" ति उपरतरागो यथा भवत्येवं 'चरेत्' विहरेत् "लाढे" त्ति 'लष्टः ' सदनुष्ठानतया प्रधानः 'विरतः' असंयमाद् निवृत्तः 'वेदवित्' आगमवेदी " आयरक्खिय" त्ति रक्षितो दुर्गतेः तद्धेत्वसदनुष्ठानवर्जनत आत्मा येन स रक्षितात्मा, परनिपातः सर्वत्र प्राकृतत्वात् । 'प्रज्ञः' हेयोपादेयबुद्धिमान् अभिभूय परीषहोपसर्गानि गम्यते, सर्व - गम्यमानत्वात् प्राणिगणं पश्यति - आत्मवत् प्रेक्षते सर्वदर्शी यः कस्मिंश्चित् सचित्तादिवस्तुनि न मूर्च्छितः स भिक्षुरिति सूत्रार्थः ॥ २ ॥ अन्यश्च
अकोसवहं विइत्तु धीरे, मुणी चरे लाढे णिच्चमायगुत्ते ।
अबग्गमणे असंपट्ठेि, जे कसिणं अहियासए स भिक्खू ॥ ३॥
व्याख्या - आक्रोशश्च वधश्च आक्रोशवधं तद् 'विदित्वा' स्वकृतकर्मफलमेतदिति मत्वा "धीरः' अक्षोभ्यः मुनिश्चरेद् अप्रतिबद्धविहारेणेति गम्यते, "लाढि" त्ति प्राग्वत् 'नित्यं' सदा "आयगुत्ते" त्ति गुप्तः- रक्षितोऽसंयमस्थानेभ्य आत्मा | येन स तथा, अव्यप्रम् - अनाकुलम् असमञ्जसचिन्तोपरमतो मनो यस्य सोऽव्यग्रमनाः, 'असम्प्रहृष्टः' आक्रोशदानादिषु न प्रहर्षवान् । यथा कश्चिदाह – “कश्चित्पुमान् क्षिपति मां परिरुक्षवाक्यैः, श्रीमत्क्षमाभरणमेत्यं मुदं व्रजामि ।" इत्यादि । प्रकृतोपसंहारमाह — यः 'कृत्स्नं' समस्तमाक्रोशवधम् 'अध्यास्ते' सहते स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ किञ्च—
पंत सयणासणं भत्ता, सीउन्हं विविहं च दंसमसगं । अन्वग्गमणे असंपहिट्ठे, जे कसिणं अहियासए स भिक्खू ॥ ४ ॥
मिक्षोर्गुण
वक्तव्यता ।