SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२१५॥ पञ्चदर्श सभिक्षुनामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता। व्याख्या-'प्रान्तम्' अधर्म शयनासनम् , उपलक्षणत्वाद् भोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतोष्णं चस्य गम्यमानत्वात् 'विविधं च' नानाप्रकारं दंशमशकं प्राप्येति शेषः, सर्वत्र च समाहारद्वन्द्वः, अव्यग्रमना असम्प्रहृष्टो यः कृत्समध्यास्ते स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ अपरश्च णो सक्कियमिच्छती न पूर्य, णो वि य वंदणगं कुओ पसंसं। से संजए सुबए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-'नो' नैव 'सत्कृतं' सत्कारम् अभ्युत्थानाऽनुगमादिरूपम् 'इच्छति' अभिलषति, न 'पूजा' वस्त्रादिसपर्याम् , 'नोऽपि च' नैव च 'वन्दनकं' द्वादशावतादिरूपम् , कुतः 'प्रशंसा' निजगुणोत्कीर्तनरूपाम् ?, नैवेच्छतीत्यभिप्रायः । 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः 'सुव्रतः' शोभनव्रतः 'तपस्वी' प्रशस्यतपाः 'सहितः' पूर्ववद्, आत्मानं कर्मविगमात् शुद्धरूपं गवेषयति-मृगयति इति आत्मगवेषको यः स भिक्षुरिति सूत्रार्थः॥५॥ तथा जेण पुण जहाइ जीवियं, मोहं वा कसिणं णियच्छई। नरनारिं पजहे सया तवस्सी, ण य कोऊहलं उवेइ स भिक्खू ॥६॥ व्याख्या-'येन' हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः 'जहाति' त्यजति 'जीवितं' संयमजीवितं 'मोहं वा' मोहनीयं कषायनोकषायादिरूपं 'कृत्स्नं समस्तं 'नियच्छति' बध्नाति, तदेवंविधं नरश्चं नारी च नरनारि 'प्रजह्यात्' त्यजेद् यः सदा तपस्वी, न च 'कुतूहलं' स्यादिविषयमुपैति स भिक्षुरिति सूत्रार्थः ॥ ६॥ सम्प्रति पिण्डविशुद्धिद्वारेण सभिक्षुत्वमाह ॥२१५॥ B.XOXOKOM
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy