________________
अथ सभिक्षुनामकं पञ्चदशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
oppor
न्द्रीया
पञ्चदर्श सभिक्षुनामकमध्ययनम् । मिक्षोर्गुणवक्तव्यता।
सुखबोधाख्या लघुवृतिः । ॥२१४॥
व्याख्यातं चतुर्दशमध्ययनम् । सम्प्रति समिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रम्
मोणं चरिस्सामि समेच्च धम्म, सहिए उजुकडे णियाणछिन्ने ।
संथवं जहेज्ज अकामकामे, अन्नायएसी परिवए स भिक्खू ॥१॥ व्याख्या-'मौन' श्रामण्यं चरिष्यामि इत्यभिप्रायेणेत्युपस्कारः, ‘समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं सहितः' समेतोऽन्यसाधुभिरिति गम्यते, न त्वेकाकी, एकाकित्वस्यागमे निषिद्धत्वात् । यदुक्तम्-"एगागियस्स दोसा, इत्थी साणे तहेव पडिणीए । भिक्खविसोहिमहत्वय, तम्हा सेविज दोगमणं ॥ १॥" 'ऋजुकृतः' अशठानुष्ठानः “नियाणछिन्न" त्ति निदानं-विषयाऽभिष्वङ्गात्मकं तत् छिन्नम्-अपनीतं येन स छिन्ननिदानः 'संस्तवं मात्रादिभिः परिचयं 'जह्यात्' त्यजेत्, न कामकाम:-कामाभिलाषी अकामकामः, अज्ञातः-तपआदिभिर्गुणैः अनवगत एषयते प्रासादिकम् अज्ञातैषी
परिव्रजेत्' अनियतविहारितया विहरेत्, “स भिक्खु" ति य एवंविधः स भिक्षुः । अनेन सिंहतया निष्कम्य सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तमिति सूत्रार्थः ॥ १॥ तच्च सिंहतया विहरणं यथा स्यात् तथा विशेषत आह
“एकाकिनो दोषाः, स्त्री श्वानः तथैव प्रत्यनीकः । भिक्षाविशुद्धि-महानतं, तस्मात्सेवेत द्विगमनम् ॥१॥"
॥२१४॥