SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ FOXXXX8 XOXOXO अथ द्वितीयं परीषहाध्ययनम् । व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम् इदानीं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः — इहानन्तराध्ययने विनयः सप्रपच उक्तः, स च किं स्वस्थावस्थैरेव समाचरितव्यः ? उत परीष हमहासैन्यव्याकुलितमनोभिरपि ? उभयास्थैरपीति ब्रूमः । अथ क एते परीषहाः ? इत्यनेन सम्बन्धेनाऽऽयातस्यास्य परीषहाऽध्ययनस्य व्याख्या प्रस्तूयते । तस्य चेदमादिसूत्रम् — सुयं मे आउ ! तेणं भगवया एवमक्खायं - इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोच्चा नच्चा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहण्णेज्जा ॥ व्याख्या—‘श्रुतम्’ आकर्णितं 'मे' मया, 'आयुष्मन् !' इति शिष्यामन्त्रणम् इदच सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह – 'तेने 'ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्य रूपसमत्रैश्वर्यादियुक्तेन ' एवं ' अमुना वक्ष्यमाणप्रकारेण 'आख्यातं ' सकलजन्तु भाषाभिव्यात्या कथितम् । उक्तञ्च – देवा देवीं नरा नारीं, शबराञ्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरचीं, मेनिरे भगवद्गिरम् ॥ १ ॥ किमाख्यातम् ? अत आह— 'इहैव' प्रवचने खलुशब्दस्यावधारणार्थत्वाद् द्वाविंशतिः | परीषहाः सन्तीति गम्यते । यदि वा “आवसंतेणं” ति मयेत्यस्य विशेषणम्, ततः 'आवसता' आगमोक्तमर्यादया वसता 8X8XX-001010XXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy