________________
षण्णाम इषुकारराजादीनां वक्तव्यता।
मिति गम्यते, 'कुटुम्बसारं' धनधान्यादि, विपुलं चोत्तमं च विपुलोत्तमं, 'तदिति यत् पुरोहितेन त्यक्तं गृहन्तमिति शेषः, "रायं" ति राजानम् 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम । किमुक्तवती ? इत्याह-'वान्ताशी' वान्तभोजी पुरुषो य इति गम्यते, हे राजन् ! न स भवति प्रशंसितो विद्वद्भिरिति शेषः । कथमहं वान्ताशी ? इति चेद् इत्यत आह-ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ॥ किश्च-सर्वं जगद् यदि "तुहं" ति तव सर्व वाऽपि धनं भवेत् , सर्वमपि 'ते' तव 'अपर्याप्तम्' अशक्तम् इच्छापूरणं प्रतीति शेषः, अपर्यवसितत्वात् तस्याः । तथा नैव 'त्राणाय' जरामरणाद्यपनोदाय 'तदिति सर्वं जगद्धनं वा तवेति ॥ अन्यच्च-मरिष्यसि राजन् ! 'यदा तदा वा' यस्मिन् तस्मिन् वा काले, जातस्य ध्रुवं मरणात् । उक्तं हि-“कश्चित् सखे! त्वया दृष्टः, श्रुतः सम्भावितोऽपि वा । क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥१॥" मनोरमान कामगुणान् 'विहाय' त्यक्त्वा , न किञ्चित् त्वया सह यास्पतीत्यभिप्रायः, तथा 'एको हु' एक एव धर्मः 'नरदेव!' नृपते! 'त्राणं' शरणम् , न विद्यते अन्यद् इह' लोके |'इह' मरणे किञ्चित् । उक्तं च-"अत्थेण नंदराया, न ताइओ गोधणेण कुइयन्नो। धन्नेण तिलयसिट्ठी, पुत्तेहिं न ताइओ सगरो॥१॥" इत्यतो धर्म एवाऽनुष्ठेयो विद्वद्भिः, तस्मात् परित्यजाऽमुं द्विजपरित्यक्तद्रव्यग्रहणाऽऽग्रहमिति सूत्रचतुष्टयार्थः ।। ३७-३८-३९-४० ।। यतश्च धर्माद् ऋते नान्यत् त्राणमतः
णाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं ।
अकिंचणा उजुकडा णिरामिसा, परिग्गहारंभणियत्तदोसा ॥४१॥ “अर्थेन नन्दराजः, न बातो गोधनेन कुचिकर्णः । धान्येन तिलकश्रेष्ठी, पुत्रैर्न त्रातः सगरः॥१॥"