________________
पण्णाम्
इषुकारराजादीनां वक्तव्यता
SIXOXOXOXOXOXOXOXOXOXOXXX
यदसकृन्न पुराऽनुभूतम् । कास्ताः श्रियो न खलु या बहुशोऽप्यवाप्ता-श्चेतस्तथाऽपि तव वर्द्धत एव वाञ्छा ॥१॥" अतः श्रद्धा-अभिलाषः तया क्षमं-युक्तं श्रेय इत्यर्थः, अनुष्ठानं कर्तुमिति शेषः, “णे" ति 'नः' अस्माकं 'विनीय' अपनीय 'रागं' स्वजनाऽभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २७-२८ ॥ इदं चाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणीमन्विदमाह
पहीणपुत्तस्स हुणस्थि वासो, बासिहि ! भिक्खायरियाइ कालो। साहाहि रुक्खो लहए समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ पक्खाविहूणो व जहेह पक्खी, भिच्चबिहूणो व रणे णरिंदो।
विवन्नसारो वणिउ व पोए, पहीणपुत्तो मि तहा अहं पि ॥ ३० ॥ व्याख्या-प्राकृतत्वेन पुत्राभ्यां प्रहीण:-त्यक्तो यस्तस्य 'हुः' पूरणे, नास्ति वासो मे गृहे इति गम्यते, हे वासिष्टि !' वसिष्ठगोत्रे! भिक्षाचर्यायाः, उपलक्षणं चैतद् व्रतग्रहणस्य, कालो वर्त्तत इति शेषः । किमित्येवम् ? अत आह-शाखाभिवृक्षो लभते 'समाधि' स्वास्थ्यम् , छिन्नाभिः शाखामिः 'तमेव' वृक्षं "खाणुं" ति स्थाणुं जनो व्यपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणादिना समाधिहेतवः एवं ममाऽप्येतौ सुतौ, अतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति ॥ | किञ्च-पक्षविहीनो 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रः, 'विपन्नसारः' विनष्टहिरण्यादिद्रव्यो वणिगू वा 'पोते' प्रवहणे भिन्ने इति गम्यते व्यसनभागितया विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपीति सूत्रद्वयार्थः ॥ २९-३० ॥ वासिष्ठ्याह