________________
श्रीउत्तराध्ययनसूत्रे : श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
॥२१॥
XOXOXOXOXOXOXXXXOXOXONE
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया।
भुंजामु ता कामगुणे पकामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१॥ व्याख्या-'सुसम्भृताः' सुष्टु संस्कृताः कामगुणाः 'इमें एते 'ते' तव, तथा 'सम्पिण्डिताः' पुञ्जीकृताः “अग्गरस” ति चस्य गम्यमानत्वाद् अत्र्याः-प्रवराः रसाश्च-मधुरादयः प्रभूताः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानम् अतिगृद्धिहेतुत्वात् , "भुंजामो" ति भुञ्जीमहि तत्' तस्मात् कामगुणान् 'प्रकामम्' अतिशयेन, 'पश्चात्' वृद्धावस्थायां गमिष्यामः 'प्रधानमाग' प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ॥ ३१ ॥ पुरोहितः प्राह
भुत्ता रसा भोइ! जहाति णो वओ, ण जीवियट्ठा पयहामि भोए।
लाहं अलाहं च सुहं च दुक्खं, संचिक्खमाणो चरिसामि मोणं ॥ ३२॥ व्याख्या-'भुक्ताः' सेविता रसा उपलक्षणत्वात् शेषकामगुणाश्च, "भोइ" त्ति हे भवति ! आमन्त्रणमेतत् , 'जहाति' त्यजति 'नः' अस्मान् 'वयः' प्रक्रमाद् इष्टक्रियाकरणक्षमम् , उपलक्षणत्वात् जीवितं च, ततो यावद् नैतत् त्यजति तावत् प्रब्रजामः-जन्मान्तरभाविभोगार्थ दीक्षा ग्रहीष्यामः। ते चात्रैव स्वाधीनाः किं प्रव्रज्यया ? इति प्रेरणायामाहन 'जीवितार्थम्' असंयमजीवितार्थ प्रजहामि भोगान् किन्तु लाभमलाभं च, सुखम् चस्य भिन्नक्रमत्वाद् दुःखं च "संचिक्खमाणो" त्ति 'समतया ईक्षमाणः' लाभाऽलाभसुखदुःखजीवितमरणादिषु समतामेव भावयन् इत्यभिप्रायः, चरिष्यामि 'मौन' मुनिभावम् , ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ वासिष्ठ्याह
माह तुम सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी। भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो॥३३॥
षण्णाम् इघुकारराजादीनां वक्तव्यता।
॥२१॥