________________
श्रीउत्तरा
चतुर्दशं
इषुकारीयाख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गृहे न रतिं लभामहे, अतश्च 'आमत्रयावहे' पृच्छाव आवां यथा चरिष्यावः 'मौन' मुनिभावं संयममिति सूत्रार्थः॥७॥ एवं च ताभ्यामुक्ते
अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी। इमं वयं वेयविओ वदंति, जहा ण होई असुयाण लोगो॥८॥ अहिज्ज वेदे परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया!।
भोचा ण भोगे सह इत्थियाहिं, आरणगा होह मुणी पसत्था ॥९॥ व्याख्या-'अर्थ' अनन्तरं तात एव तातकः 'तत्र' तस्मिन्नवसरे 'मुन्योः' भावतः प्रतिपन्नमुनिभावयोः 'तयो' कुमारयोः तपसः, उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः, “वयासि" त्ति अवादीत् , यदवादीत् तदाह-इमां वाचं वेदविदो वदन्ति, यथा-न भवति 'असुतानाम्' अपुत्राणां 'लोकः' परलोकः, तं विना पिण्डप्रदानाद्यभावात्। तथा च वेदवचः- "अनपत्यस्य लोका न भवन्ति ।" तथाऽपि अन्यैरप्युक्तम्-“पुत्रेण जायते लोकः, | इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥ १॥" यत एवं तस्माद् अधीत्य वेदान् 'परिवेष्य' भोजयित्वा विप्रान पुत्रान् परिस्थाप्य गृहे 'जातो!' पुत्रौ!, तथा भुक्त्वा “ण” इति वाक्यालङ्कारे, भोगान् सह स्वीमिः अरण्ये भवौ आरण्यौ तावेव 'आरण्यको' आरण्यकव्रतधारिणौ "होह" त्ति 'भवतां' सम्पयेथां युवां मुनी 'प्रशस्ती' श्लाघ्याविति सूत्रद्वयार्थः ॥ ८-९ ।। इत्यं तेनोक्ते कुमारको यदकाष्टी तदाह
सोयग्गिणा आयगुणिंधणेणं, मोहाणिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥१०॥
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०६॥
॥२०६॥