________________
MEDI
व्याख्या-जाति-जरा-मृत्युभयाभिभूती, बहिः संसाराद् विहारः-स्थानं बहिर्विहारः स चार्थाद् मोक्षस्तस्मिन्न- षण्णाम् भिनिविष्टं-बद्धाग्रहं चित्तं ययोस्तो, तथा संसारः चक्रमिव संसारचक्र तस्य 'विमोक्षार्थ' परित्यागनिमित्तं दृष्ट्वा साधूनिति इषुकारशेषः, 'तो' अनन्तरोक्तौ 'कामगुणे' कामगुणविषये विरक्तौ प्रियौ-वल्लभौ तौ च तौ पुत्रावेव पुत्रको प्रियपुत्रको द्वावपि राजादीनां माहनस्य 'स्वकर्मशीलस्य' यजनयाजनादिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्तुः स्मृत्वा "पोराणिय" त्ति सूत्रत्वात्
वक्तव्यता। पौराणिकी' चिरन्तनीं 'तत्र' सन्निवेशे जातिम्, तथा सुचीर्णं तपः संयमं च, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ४-५ ॥ ततस्तौ किमकासम् ? इत्याह
ते कामभोगेसु असज्जमाणा, माणुस्सएसुंजे यावि दिया।
मोक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु॥६॥ व्याख्या-'तो' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु "असजमाण" त्ति 'असजन्ती' सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्बन्धिषु ये चाऽपि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाशिणी' मुक्त्यभिलाषिणी 'अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं "उदाहु" त्ति 'उदाहरताम् उक्तवन्ताविति सूत्रार्थः ॥ ६ ॥ यच्च तावुक्तवन्तौ तदाह
असासयं दट्ठ इमं विहारं, बहुअंतरायं न य दीहमाउं।
तम्हा गिहंसिण रई लभामो, आमंतयामु चरिसामि मोणं ॥७॥ व्याख्या-'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं 'विहारं' मनुष्यत्वेनावस्थानम् , किमित्येवम् ? इत्याह-'बह्वन्तरायं' बहुव्याध्यादिविघ्नं 'न च' नैव दीर्घ 'आयुः जीवितम् , सम्प्रति पल्योपमायुष्कताया अप्यभावात् , यत एवं तस्माद् ।