________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२०३॥
जइ तं सि भोगे चइउं असत्तो, अन्जाई कम्माई करेहि रायं।
धम्मे ठिओ सबपयाणुकंपी, तो होहिसि देवो इओ विउची ॥३२॥ व्याख्या-यदि त्वमसि भोगान् त्यक्तुमशक्तः, ततः किम् ? इत्याह-'आर्याणि' शिष्टजनोचितानि 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद् गृहस्थधर्मे सम्यग्दृष्ट्यादिशिष्टानुचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणियापरः । ततः किं फलम् ? इत्याह-'ततः' आर्यकर्मकरणाद् भविष्यसि 'देवः' वैमानिकः 'इतः' अस्माद् मनुष्यभवादनन्तरं "विउवि" त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२॥ एवमुक्तोऽपि यदाऽसौ न किञ्चित् प्रतिपद्यते तदा मुनिराह
- ण तुज्झ भोगे चइऊण बुद्धी, गिद्धो सि आरंभपरिग्गहेसु ।
मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥३३॥ ___ व्याख्या-न' प्रतिषेधे, तव भोगान् उपलक्षणत्वादनार्यकर्माणि वा त्यक्तुं बुद्धिः, किन्तु 'गृद्धः' मूर्च्छितः 'असि' भवसि आरम्भपरिग्रहेषु । 'मोघं' निष्फलं यथा भवत्येवं 'कृतः' विहित एतावान् ‘विप्रलापः' विविधव्यर्थवचनोपन्यासात्मकः । सम्प्रति तु गच्छामि राजन् ! 'आमश्रितः' अनेकार्थत्वाद् धातूनां पृष्टः 'असि' भवसि। अयमाशयः-अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणाऽनुशिष्यमाणस्याऽपि तव न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षव श्रेयस्करी । उक्तं | हि-"मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" इति सूत्रार्थः॥ ३३ ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत् तदाह
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम्। चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
॥२०३॥