SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ चित्रसम्भू श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२०२॥ चीमरणतो निरन्तरमित्यभिप्रायः। 'वर्ण' सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् !। यतश्चैवमतः पञ्चालराज ! त्रयोदशं वचनं 'शृणु' आकर्णय, किं तत् ? मा कार्षीः कर्माणि "महालयाणि" त्ति अतिशयमहान्ति पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते नृपतिराह तीयाख्यअहं पि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेयं । मध्ययनम् । भोगा इमे संगकरा भवंति, जे दुजया अजो! अम्हारिसेहिं ॥२७॥ चित्रव्याख्या-अहमपि जानामीति तथेति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यद् 'मे' मम त्वं leel सम्भूत'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः 'एतद्' अनन्तरोक्तम् । तत् कथं न विषयान् परित्यजसि ? अत आह मुन्योः सौत्री भोगा इमे 'सङ्गकराः' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोर्नित्याभिसम्बन्धात् ते दुस्त्यजाः आर्य ! 'अस्मादृशैः' गुरुकर्म वक्तव्यता। भिरिति सूत्रार्थः ॥ २७ ॥ किश्चहत्थिणपुरम्मि चित्ता!, दट्टणं णरवई महिड्डियं । कामभोगेसु गिद्धेणं, णियाणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकंतस्स, इमं ऐयारिसं फलं । जाणमाणो वि जं धम्म, कामभोगेसु मुच्छिओ ॥२९॥ | व्याख्या-हस्तिनागपुरे हे 'चित्र!' चित्रनामन् मुने! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्तिनं महIर्द्धिकं कामभोगेषु गृद्धेन निदानम् 'अशुभम्' अशुभानुबन्धि कृतमिति ॥ "तस्स" त्ति सुव्यत्ययेन 'तस्माद्' निदानाद् मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मचेतसः प्रत्यावृत्तिरभूदिति, 'इदमेतादशम' अनन्तरवक्ष्यमाणरूपं फलं' कार्यम् , यत् कीदृग् ? इत्याह-"जाणमाणो वि"त्ति प्राकृतत्वात् जानन्नपि यदहं १ सत्यपि च जीविते ।।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy