________________
चित्र
सम्भूतन्योः सोत्री वक्तव्यता।
रूपादयस्तैरुपेतं पश्चालगुणोपेतम् , किमुक्तं भवति ?-पञ्चालेषु यानि विशिष्टवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति । पञ्चालानां तदाऽत्युदीर्णत्वात् पश्चालग्रहणम् , अन्यथा हि भरतेऽपि यद् विशिष्टं वस्तु तत् तद्नेह एव तदाऽऽसीत् ॥ | किश्च-"नट्टेहिं" ति नृत्यैः गीतैः, चस्य भिन्नक्रमत्वात् वादित्रैश्च नारीजनान परिवारयन्' परिवारं कुर्वन् भुत भोगान्मु 'इमान्' परिदृश्यमानान् , सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, हे मिक्षो! । इह तु यद् गजतुरङ्गादि अनभिधाय स्त्रीणामेवाभिधानं | तत् स्त्रीलोलुपत्वात् तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थम । किमित्येवम् ? अत आह-मह्यं रोचते' प्रतिभाति प्रव्रज्या 'हुः' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १३-१४ ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह
तं पुवनेहेण कयाणुरागं, णराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ।। १५॥ व्याख्या-'' ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु गृद्धं 'धर्माऽऽश्रितः' धर्मस्थितः 'तस्येति चक्रिणः | 'हितानुप्रेक्षी' हितकाङ्की 'चित्रः' चित्रजीवयतिः इदं वाक्यमुदाहृतवानिति सूत्रार्थः॥ १५॥ किमुदाहृतवान् ? इत्याहसबं विलवियं गीयं, सधं नह विडंबियं । सबे आभरणा भारा, सवे कामा दुहावहा ॥ १६ ॥
बालाभिरामेसु दुहावहेसु, ण तं सुहं कामगुणेसु रायं ।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ व्याख्या-सर्व 'विलपितं' विलपितप्रायं निरर्थकतया गीतम् , मत्तबालकगीतवत् । सर्व नृत्यं 'विडम्बितं' विडम्बनाप्रायम् , यक्षाधिष्ठितपीतमद्याद्यङ्गविक्षेपवत्।सर्वाणि आभरणानि भाराः, तत्त्वतो भाररूपत्वात् तेषाम् । तथाहि-कस्यचित्