SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ व्याख्या-सत्यं-मृषाभाषापरिहाररूपं शौचम्-अमायमनुष्टानं ताभ्यां प्रकटानि-ख्यातानि कर्माणि-प्रक्रमात् चित्रशुभानुष्ठानानि मया पुरा कृतानि यानीति गम्यते, तानि 'अद्य' अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् , “परिभुजा सम्भूतXमो" त्ति 'परिभुञ्जे' तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये । यथेति गम्यते, 'किमिति प्रने, 'नु' इति वितर्के, समुन्योः सौत्री 'चित्रोऽपि' चित्रनामाऽपि, कोऽर्थः ?–भवानपि "से" इति तानि तथा परिभुते ?, नैव भुते भिक्षुकत्वाद् भवतः । तथा वक्तव्यता। च किमिति तव यानि मयैव सहोपार्जितानि कर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः॥ ९॥ मुनिराह सर्व सुचिन्नं सफलं णराणं, कडाण कम्माण ण मोक्खु अस्थि । अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुन्नफलोववेओ ॥१०॥ जाणाहि संभूय ! महाणुभाग, महिड्डियं पुन्नफलोववेयं । चित्तं पि जाणाहि तहेव रायं, इड्डी जुई तस्स वि अप्पभूया ॥११॥ महत्थरूवा वयणप्पभूया, गाहाऽणुगीया णरसंघमज्झे। जंभिक्खुणो सीलगुणोववेया, इह जयंते समणो म्हि जाओ॥१२॥ व्याख्या-'सर्व' निरवशेष 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणाम् , उपलक्षणत्वाच शेषप्राणिनाम् । किमिति ? यतः 'कृतेभ्यः' अर्थाद् अवश्यवेद्येभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्ति, ददति हि सानि निजफलमवश्यमिति भावः । प्राकृतत्वात् सुब्व्यत्ययः । स्यादेतत्त्व यैव व्यभिचार इत्याह-'अर्थैः' द्रव्यैः 'कामैश्च प्रतीतैः 'उत्तमैः' प्रधानरुपलक्षितः सन्नात्मा मम 'पुण्यफलोपेतः' चक्रवर्त्तित्वप्राप्त्या शुभकर्मफलान्वित इति यथा त्वं जानासि ॥ हे सम्भूत ! 'महानुभागं' बृहन्माहात्म्यं 'महर्द्धिक' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि जानीहि उ०अ०३४
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy