________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १९७ ॥
BXCXXXCX
राज्यलक्ष्मीमाहात्म्यं यदन्नमात्रदानेनाप्यालोचयसि । ततो राज्ञा असूययाऽनुज्ञातम् । भोजितश्चासौ आहारदानेन स्वभार्यापुत्र- खुषा- दुहितृ-पौत्रादिबान्धववृन्दान्वितः । गतः स्वगृहम् । आगतायां निशीथिन्यां परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरः अनपेक्षितमातृ स्नुषा-भगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽन्यमकार्यमाचरितुं द्विजपरिजनः । परिणते चाऽऽन्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्च अन्योन्यमास्यं दर्शयितुमपारयन् निर्गतों नगरात् । चिन्तितश्च द्विजेन - कथ मनिमित्तवैरिणा राज्ञेत्थं विडम्बितोऽहम् ? । ततोऽमर्षितेन तेन वनेऽटता दृष्ट एकोऽजापालकः स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् । चिन्तितं च तेन - 'मद्विवक्षितकार्यकरणयोग्योऽयम्' इति कृत्वा उपचरितस्तेन दानमानादिभिः कथितस्तेन स्वाभिप्रायस्तस्य रहसि । तेनापि प्रतिपन्नम् । अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुत्र्यान्तरिततनुना अमोघवेध्यत्वेन गोलिकयैककालमुत्पादिते लोचने । ततो राज्ञा तद्वृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितः पुरोहितः । अन्यानपि द्विजान् घातयित्वा उक्तो मन्त्री — यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि येनाहं स्वहस्तमर्दनेन स्वसुखमुत्पादयामीति । मत्रिणाऽपि क्लिष्टकर्मोदयवशतां तस्यावगम्य शाखोटकतरुफलानि स्थाले निक्षिप्य तस्यार्पितानि । सोऽपि रौद्राध्यवसायोपगतस्तानि अक्षिबुद्ध्या मर्दयन् स्वं सुखाकुर्वन् दिनान्यतिवाहयति । एवं च विद्धतोऽतीतानि कतिचिद् दिनानि । ततः सप्त वर्षशतानि षोडशोत्तराणि आयुरनुपाल्य तत्क्षये प्रवर्द्धमानरौद्राध्यवसायो मृत्वोत्पन्नः सप्तमनरक पृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारक इति ॥ साम्प्रतं सूत्रमनुत्रियते -
जाईपराइओ खलु, कासि णियाणं तु हत्थिणपुरंम्मि । चुलणीइ बंभदत्तो, उववन्नो परमगुम्माओ १ व्याख्या - जात्या - प्रस्तावात् चाण्डालजात्या पराजितः - अभिभूतो जातिपराजितः 'खलुः' वाक्यालङ्कारे “कासि” त्ति अकार्षीत् ' निदानं ' 'चक्रवर्त्तिपदावाप्तिर्मे भवेदित्येवमात्मकम्, 'तुः' पूरणे, हस्तिनागपुरे चुलन्यां ब्रह्मदत्त
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतवक्तव्यता ।
॥ १९७॥