SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ हरिकेशमुनेः | सौत्री वक्तव्यता। मिथ्यात्वगुप्तिविराधनादिमिरकलुषे, अनाविलत्वात् । आत्मनः-जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिस्तदात्मप्रसन्नलेश्यं तस्मिन् एवंविधे धर्महदे ब्रह्माख्यशान्तितीर्थे च । “जहिंसि" त्ति यस्मिन् स्नात इव स्नातः अत्यन्तशुद्धिभवनात् 'विमलः' भावमलरहितोऽत एव 'विशुद्धः' गतकलङ्कः "सुसीतीभूतो" त्ति 'सुशीतीभूतः' रागाद्युत्तापविरहितः सुष्टु शैत्यं प्राप्तः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तम् । अनेनैतदाह-ममापि हृदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति ॥ निगमयितुमाह-एतदि'त्यनन्तरमुक्तं 'स्नानं रजोहानं कुशलैदृष्टम् , इदमेव च महास्नानं न तु युष्मत्प्रतीतम् , अस्यैव सकलमलापहारित्वात् अत एव ऋषीणां 'प्रशस्तं' प्रशंसास्पदम् , न तु जलस्नानवत् सदोषतया निन्द्यम् । अस्यैव फलमाह-"जहिंसि" त्ति सुव्यत्ययाद् येन नाता विमला विशुद्धा इति प्राग्वत् , 'महर्षयः' महामुनयः 'उत्तमं स्थानं' मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ॥ ४६-४७ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । एवं चोपसम्पन्नेषु द्विजेषु यक्षेण प्रगुणीकृतास्ते छात्राः तत्कालोचितधर्मदेशनया |च तान् प्रतिबोध्य गतः स्वविहारमसौ मुनिः॥ ॥इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्र लघुटीकायां हरिकेशीयाख्यं द्वादशमध्ययनं समाप्तम् ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy