________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १८४ ॥
XOXOXOXCXCXCXXCXCXCXCXX
के हर ? के य ते संतितित्थे ?, कहिंसि पहाओ व रयं जहासि ? ।
आयक्ख णे संजय ! जक्खपूइया !, इच्छामो णाउं भवओ सयासे ॥ ४५ ॥ व्याख्या—कः 'ते' तव ‘हद:' नदः ?, “के य ते संतितित्थे” त्ति किं च ते शान्त्यै - पापोपशमनिमित्तं तीर्थं - पुण्यक्षेत्रं शान्तितीर्थम् ? तथा च "कहिंसि ण्हाओ व” त्ति वाशब्दस्य भिन्नक्रमत्वात् कस्मिन् वा 'स्नातः ' शुचिभूतो रज इव 'रजः' कर्म 'जहासि' त्यजसि त्वम् ?, गम्भीराभिप्रायो हि भवान् तत्र किमस्माकमिव भवतोऽपि हि हृदतीर्थे एव शुद्धिस्थानम् ? अन्यद्वा ? इति न विद्म इति भावः । ' आचक्ष्व ' व्यक्तं वद 'नः' अस्माकं संयत ! यक्षपूजित !, 'इच्छामः' अभिलषामः 'ज्ञातुम्' अवगन्तुं 'भवतः ' तव 'सकाशे' समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह —
धम्मे हर बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि हाओ विमलो विसुद्धो, सुसीतीभूतो पजहामि दोसं ॥ ४६ ॥ एवं सिणाणं कुसलेहि दिट्ठ, महासिणाणं इसिणं पसत्थं ।
जहिंसि व्हाया विमला विसुद्धा, महारिसी उत्तमं ठाण पत्त ॥ ४७ ॥ त्ति बेमि ॥ व्याख्या -- 'धर्मः' अहिंसाद्यात्मक: हृदः, कर्मरजोपहन्तृत्वात् । 'ब्रह्मेति ब्रह्मचर्यं शान्तितीर्थम्, तदाऽऽसेवनेन हि सकलमलमूलरागद्वेषावुन्मूलितावेव भवतः, तदुन्मूलनाच न कदाचिद् मलस्य सम्भवोऽस्ति, सत्याद्युपलक्षणं चैतत् । तथा चाह - "ब्रह्मचर्येण सत्येन तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धिं न शुद्धिस्तीर्थयात्रया ॥१॥” किच-भवत्प्रतीततीर्थानि प्राण्युपमर्दद्देतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ?, तथा चोक्तम् — “कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् । सागरेणाऽपि कृत्स्नेन, वधको नैव शुध्यति ॥ १ ॥” हृदशान्तितीर्थे एव विशिनष्टि – 'अनाविले'
(CXCXCX
द्वादशं हरिकेशी
याख्य
मध्ययनम् । हरिकेशमुनेः सौत्री
वक्तव्यता ।
॥ १८४ ॥