________________
सौत्री
वृताविप्रक्षेपिका दुर्व्यः ?, "किं ब" त्ति किं वा करीषः - प्रतीतः स एवानम् - अम्युद्दीपनकारणं करीषानं येनाग्निः सन्धु- हरिकेशमुनेः क्ष्मते, 'पाच' समिधो यकाभिरमिः प्रज्वाल्यते 'ते' तव 'कतराः' इति काः ?, “संति” त्ति चस्य गम्यमानत्वात् 'शान्तिश्व' दुरितोपशमहेतुः अध्ययनपद्धतिः कतरेति प्रक्रमः, “भिक्खु !” इति भिक्षो! कतरेण 'होमेण' हवनविधिना 'जुहोषि' आहुतिभिः प्रीणयसि किं तद् ज्योतिः ?, षड्जीवनिकायसमारम्भनिषेधेन प्रस्मदभिमतो होमः सदुपकरणानि व पूर्व निषिद्यानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ ४३ ॥ मुनिराह --
तो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं ।
कम्मं एहा संजमजोग संती, होमं हुणामि इसिणं पसत्थं ॥ ४४ ॥
XCXCXXXCXCXCXOXOXO X
व्याख्या—‘तपः' बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोति एवं तपोऽपि भावेन्धनानि - कर्माणि । 'जीवः' जन्तुः ज्योतिःस्थानम्, तपोज्योतिषस्तदाश्रयत्वात् । 'योगाः' मनोवाक्कायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति । शरीरं करीषाङ्गम्, तेनैव हि तपोज्योति - रुद्दीप्यते, तद्भावभावित्वात् तस्य । 'कर्म' उक्तरूपम् एधाः, तस्यैव तपसा भस्मीभावनयनात् । "संजमजोग" त्ति 'संयमयोगाः संबमव्यापाराः शान्तिः, सर्वप्राण्युपद्रवपरिहारित्वात् तेषाम् । तथा "होम" ति होमेन जुहोमि तपोज्योतिरिति गम्यते, 'ऋषीणां मुनीनां सम्बन्धिना “पसत्थं" ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ ४४ ॥ एवं यज्ञस्वरूप - मवधार्य स्नानस्वरूपं पिपूच्छिषवस्ते इदमाहुः -
वक्तव्यता ।