SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXX खड्डया मे चवेडा मे, अकोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिहि त्ति मनइ ॥३८॥ व्याख्या-'खड्डुकाः' टक्कराः 'मे' मम 'चपेटाः' करतलघाता मे 'आक्रोशाश्च' निष्ठुरभाषणानि मे 'वधाश्च' दण्डादिघाता मे अनुशासनमिति प्रक्रमः। कल्याणं "अणुसासंतु” त्ति अनुशास्यमानः 'पापदृष्टिः' प्रक्रमात् कुशिष्यः 'इति' एवं सामन्यत इति सूत्रार्थः ॥ ३८ ॥ विनीताभिसन्धिमाहपुत्तो मे भाय नाइ त्ति, साहू कल्लाण मन्नइ । पावदिट्ठी उ अप्पाणं, सासं दासं व मन्नइ ॥३९॥ व्याख्या-इवार्थस्य गम्यमानत्वात् सुब्व्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञातिमिव “मे” त्ति मां अयमाचार्योऽनुशास्तीति गम्यते, 'इति' एवं 'साधुः' शिष्यः कल्याण मन्यते । स हि विवेवयति शिष्यः-सौहार्दादेष मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? ममैव त्वर्थभ्रंश इति । बालस्त्वेवं किं न मन्यते ? इत्याह-पापदृष्टिस्तु' कुशिष्यः पुनः आत्मानं “सासं" ति प्राकृतत्वाच्छास्यमानं दासमिव मन्यते, यथैष दासवद् मामाज्ञापयतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वस्वमुपदेष्टुमाहन कोवए आयरियं, अप्पाणं पि ण कोवए । बुद्धोपघाई ण सिया, ण सिया तोत्तगवेसए ॥४०॥ | व्याख्या-न 'कोपयेत्' कोपोपेतं कुर्याद् आचार्यम् उपलक्षणत्वादपरमपि विनयाईम् आत्मानमपि गुरुभिरतिपरपभाषणादिनाऽनुशिष्यमाणं न कोपयेत् । यतः-मासोपवासनिरतोऽस्तु तनोतु सत्यं, ध्यानं करोतु विदधातु बहिनिवासम् । ब्रह्मव्रतं धरतु भैक्षरतोऽस्तु नित्यं, रोपं करोति यदि सर्वमनर्थकं तत् ॥ १॥ कथश्चित् सकोपतायामात्र 'बुद्धोपघाती' 'आचार्योपघातकृत्' 'न स्याद्' न भवेत् , तथा न स्यात् तुद्यते-व्यथ्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनक
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy